________________
१७६ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० ५९६ - ५६६
यथा
गिरिराजसुताकमनीयमनङ्गविभङ्गकरं गलमस्तकमालं, परिधूतगजाजिनवाससमुद्धतनृत्यकरं विगृहीतकपालम् । गरलानलभूषित-दीनदयालमदभ्रमदोद्धतदानवकालं, प्रणमामि विलोलजटातटगुम्फितशेषकलानिधिलालितभालम् ॥ ५९६ ॥
____ इति मल्ली २५६. इयमेव मात्रावृत्ते मल्लीसवया इत्युक्ता।
२६०. अथ मणिगणम् सुतनु ! सुदति ! वसुमितनगणमिह विधुसुमुखि ! सुविरचय, तदनु विकचकमलसदृशमुखि ! सुरभिकुसुममपि कलय । गतिवश विदलितमदकलकरिवरगमन इह सुरमणि, मणिगणमिति फणिपतिरपि कथयति विमलमतिरतिरणि' ।। ५६७ ॥
यथा
निगमविदित सततमुदित परमपुरुषसुकृतसुललित', सकलमनुजकलुषदहन तरलयुवतिवचनविचलित । विकटगहनदहनकवल पिहितनयन मिलितसखिबल ! कलितविविधविबुधसुखचय जय जय दलितदितिजदल ॥ ५६८ ।।
___ इति मणिगणम् २६०. ४अत्रापि प्रस्तारगत्या पञ्चविंशत्यक्षरस्य कोटित्रयं पञ्चत्रिशल्लक्षाणि चतुःपञ्चसहस्राणि द्वात्रिंशदुत्तराणि चतुःशतानि च ३३५५४४३२ भेदास्तेषु दिगुपदर्शनार्थं भेदचतुष्टयमुक्तं. वृत्तान्तराणि च प्रस्तार्य सुधोभिरूह्यानीति शिवम् ।
इति पञ्चविंशत्यक्षरम् ।
अथ षड्विंशाक्षरम् तत्र प्रथमं सर्वगुरुम्
२६१. श्रीगोविन्दानन्दः . यस्मिन् वृत्ते दिक्संख्याताः कर्णा रामैः संपन्ना शोभन्तेऽत्यन्तं वामव्याकाराः, विश्रामः स्यात् षड्भिः कर्णैः पश्चादन्ते कुन्तीपुत्रर्मोनस्तेषां लोकैः ख्याताहाराः । सर्वेषां नागानामीशेनायं प्रोक्तः सर्वान्त्यः प्रस्तारः षड्विंशत्याहारैस्तारैः, सोऽयं श्रीगोविन्दानन्दश्च्छन्दस्सारः सर्वाधारः कार्यश्चित्तेऽपारैश्छन्दस्कारैः
॥५६६॥ १. क. विलमतिरतितरणि । २. ख. सुफलित । ३. पंक्ति चतुष्टयं नास्ति क. प्रतो । *टिप्पणी-१ पञ्चविंशत्यक्षरवृत्तस्योपलब्धशेषभेदा: पञ्चमपरिशिष्ट लोकनीयाः ।