________________
१०५६० - ५९५ । mm
१. वृत्तनिरूपण - प्रकरण
[ १७५
यथा
तत्त्वैरात्मा यस्मिन् वृत्ते वणः ख्याताः' छन्दोविद्भिः सद्भिः संसेव्यः सर्वानन्दः,
सोऽयं नागाधीशेनोक्तो वृत्ताध्यक्षः संसाध्यः पुम्भिश्चित्ते कामं कामानन्दः।५६० । यथा
वन्यैः पीतैः पुष्पैर्मालां समथ्नतं श्रीमद्वन्दारण्ये गोपीवृन्दे' खेलन्तं, मायूरैः पत्रंदिव्यं छत्रं कुर्वन्तं वृक्षाणां शाखां धृत्वा हिन्दोले दोलन्तम् । वंशीमोष्ठप्रान्ते कृत्वा संगायन्तं तासां तन्नाम्नान्युक्त्वा गोपीराह्वायन्तं, दक्षं पादं वामे कृत्वा संतिष्ठन्तं काल्पेवाः मूले वन्दे कृष्णं भासन्तम्।।५६१।।
इति कामानन्दः २५७.
२५८. प्रथ क्रौञ्चपदा कारय भं मं धारय सं भं निगमनगणमिह विरचय रुचिरं, सञ्चितहारा पञ्चविरामा शरवसुमुनियुतसुरचितविरतिः । क्रौञ्चपदा स्यात् काञ्चनवणे गतिवशसुविजितमदगजगमने, तत्त्वविभेदैर्वर्णविरामा बहुविधगतिरपि भवति च गणने ।। ५६२ ।। या तरलाक्षी कुञ्चितकेशी मदकलकरिवरगमनविलसिता, फुल्लसरोजश्रेणिकटाक्षा मधुमदसुमुदितसरभसगमना।। स्थूलनितम्बा पोनकुचाढया बहुविधसुखयुतसुरतसुनिपुणा,
सा परिणेया सौख्यकरा स्त्री बहुविधनिधुवनसुखमभिलषता ।। ५६३ ।। यथा वा, हलायुधे*
या कपिलाक्षी पिङ्गलकेशी कलिरुचिरनुदिनमनुनयकठिना, दीर्घतराभिः स्थूलशिराभिः परिवृतवपुरतिशयकुटिलगतिः । आयतजङ्घा निम्नकपोला लघुतरकुचयुगपरिचितहृदया, सा परिहार्या क्रौञ्चपदा स्त्री ध्रुवमिह निरवधिसुखमभिलषत। ।। ५९४ ॥ इति प्रत्युदाहरणम् ।
इति क्रौञ्चपदा २५८.
२५६. अथ मल्ली सगणाष्टकगुरुघटिता शरपक्षकवर्णविलसिता या स्यात् । तामिह पिङ्गलनागः कथयति मल्लीमिति स्फुटतः ।। ५६५ ।।
१. ख. ख्यातः। २. क. सङ्ग्रीष्मन्तं । ३. ख. गोपीवृन्दः। ४. ख. तं तिष्ठन्तं सत्कादम्बे। ५. क. कृष्णे। *टिप्पणी-१ छन्दःशास्त्र-हलायुधीयटीकायां प०७, कारिकाया ३० उदाहरणम् ।