SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ {૭૪ ] यथा यथा वृत्तमौक्तिक द्वितीयखण्ड - २५५. अथ माधवी तत्त्वाक्षरकृतवृत्तं यदि वसुभिर्नायकैर्घटितम् । तत्सखि ! पिङ्गलभणितं कथितं त्विह माधवीवृत्तम् ।। ५८६ ।। [ १० ५८६ - ५८६ विलोलविलोचनकोणविलोकितमोहित गोपवधूजन चित्तः, मयूरकलापविकल्पितमौलिरपारकलानिधिबालचरित्रः । करोति मनो मम विह्वल मिन्दुनिभस्मितसुन्दरकुन्दसुदन्तः, सखीमिति कापि जगाद हरेरनुरागवशेन विभावितमन्तः ।। ५८७ ।। इति माधवी २५५. इदमेवास्माभिः पूर्वखण्डे माधवी सवया इत्युक्ता । २५६. अथ तरलनयनम् वसुमितलघुमिह सहचरि ! विकचकमलमुखि ! विरचय, तदनु घटय सखि ! रसदशलघुमपि तरलनयन इह । सकलचरणमिति वसुमितसुनगणमनु कुरु सुरमणि, फणिमणिहि विभुरनुवदति सुरुचिरमिति परिकलय ॥ ५८८ ।। तत्र प्रथमम् - कुसुमनिकरपरिकलितमधुरवन विहरणसुनिपुण, सरभसविदलितकरिवरन रवरदलित दितिजगण । करतगिरिवर विलसितमणिगण मुनिमतमुरहर, फणिपतिविगणितगुणगण जय जय जय सदवनपर ।। ५८६ ॥ इति तरलनयनम् २५६. 'अत्रापि प्रस्तारगत्या चतुर्विंशत्यक्षरस्य एकाकोटिः सप्तषष्टिलक्षाणि सप्तसप्ततिसहस्राणि षोडशोत्तरं शतद्वयं च १६७७७२१६ भेदास्तेषु भेदषट्कमुदाहृतं, शेषभेदाः प्रस्तार्य सुधीभिरुदाहरणीया, इति दिक् । इति चतुर्विंशत्यक्षरम् । अथ पञ्चविंशाक्षरम् २५७. कामानन्दः यस्मिन् वृत्ते सावित्राः कौन्तेयाः कान्ताः यत्पादप्रान्ते कान्ते ! चैको मुक्ताहारः, विश्रामः स्यात् षड्भिः कर्णैर्भव्याकारैः सार्द्धस्तैरेव स्यात् सोऽयं वृत्तानां सारः । १. पंक्तित्रयं नास्ति क. प्रतौ । *टिप्पणी - १ चतुर्विंशत्यक्ष रवृत्तस्य लभ्यशेषभेदाः पञ्चमपरिशिष्टे पर्यवेक्षणीया: ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy