________________
५०५८१ - ५८५]
१. वत्तनिरूपण - प्रकरण
[ १७३
NUPURNO
२५३. प्रथकिरीटम् पादयुगं कुरु नूपुरराजितमत्र करं वररत्नमनोहरवज्रयुगं कुसुमद्वयसङ्गतकुण्डलगन्धयुगं समुपाहर । पण्डितमण्डलिकाहृतमानसकल्पितसज्जनमौलिरसालय, पिङ्गलपनगराजनिवेदितवृत्तकिरीटमिदं परिभावय । ५८१ ॥
यथा
मल्लिलते मलिनासि किमित्यलिना रहिता भवती बत यद्यपि, सा पुनरेति शरद्रजनी तव या तनुते धवलानि जगन्त्यपि । षट्पदकोटिविघट्टितकुण्डल'को टविनिर्गतसौरभसम्पदि, न त्वयि कोऽपि विधास्यति सादरमन्तरमुत्तरनागरसंसदि ।। ५८२॥
इति किरीटम् २५३.
२५४. अथ तन्वी कारय भं तं सुचरितभरिते नं कुरु सं सखि ! सुमहितवृत्ते, धेहि भयुग्मं नगणसुसहितं कारय सुन्दरि ! यगणमिहान्ते । भूतमुनीनर्यतिरिह कथिता द्वादशभिश्च सुकविजन वित्ता, तत्त्वबिरामा भुजगविरचिता राजति चेतसि परमिति तन्वी ॥ ५८३ ॥
यथा
मा कुरु मानं कुरु मम वचनं कुञ्जगतं भज सहचरि ! कृष्णं, कारितरासं वलयितवनितं गोपवधूजनयुवतिसतृष्णम् । कोकिलरावैर्मधुकरविरुतैः स्फोटितकर्णयुगलपरिखिन्ना,
दाहमुपेता मलयजसलिलैस्सम्प्रतिदेहज शरभरभिन्ना ।। ५८४ ।। यथा वा, छन्दोवृत्तौ द्वादशाक्षरविरतिः
चन्द्रमुखी सुन्दरघनजघना कुन्दसमानशिखरदशनाया, निष्कलवीणा श्रुतिसुखवचना त्रस्तकुरङ्गतरलनयनान्ता। निमुखपीनोन्नतकुचकलशा मत्तगजेन्द्र ललितगतिभावा, निर्भरलीला निधुवनविधये मुञ्जनरेन्द्र ! भवतु तव तन्वी ।। ५८५ ।। इति प्रत्युदाहरणम् ।
इति तन्वी २५४.
१. ख. कुड्मल । २. क. मधुकरविरतिः। *टिप्पणी-१ छन्दःशास्त्र-हलायुधीयटीका प्र० ७, कारिकाया २६ उदाहरणम् ।