SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ १७२ ] वृत्तमौक्तिक - द्वितीयखण्ड [७० ५७६ - ५८० अथ चतुर्विशाक्षरम् तत्र प्रथमम् २५१. रामानन्दः आदित्यः संख्याता यस्मिन् वृत्ते दिव्ये श्रीनागाख्याते शोभन्तेऽत्यन्तं कर्णाः, षड्भिः कर्णं द्वित्वं प्राप्तैर्यद्विश्रामः स्यात् सत्तत्त्वैरसांख्यैः ख्यातास्तद्वद्वर्णाः । कामक्रीडाकूतस्फीतः प्राप्तानन्दे भव्याकारे चन्द्रागव्ये नव्ये कान्ते !, वेदैत्रैर्यस्मिन् पादे हाराः संपत्कन्दं रामानन्दं वृत्तं धेहि स्वान्ते ।। ५७६ ।। यथा रासोल्लासे गोपस्त्रीभिवन्दारण्ये कालिन्दीये कुजे कुजे गुञ्जभृङ्गे, दिव्यामोदे पुष्पाकीर्णे धृत्वा वंशी मन्दं मन्दं दिव्यैस्तानैः सङ्गायन्तम् । कामक्रीडाकूतस्फीतं तासामङ्गेऽनङ्ग साङ्गं कुर्वन्तंतं कामं कान्तं, सर्वानन्दं तेजोरूपं विश्वाध्यक्षं वन्दे देवं भासन्तं प्रातःसायान्तम् ॥५७७।। इति रामानन्दः २५१. २५२. अथ दुर्मिलका विनिधाय करं सखि ! पाणितलं कुरु रत्नमनोहरबाहुयुगं, सगणं च ततः कुरु पाणितलं सखि ! रत्नविराजितपादयुतम् । यदि योगरसैरपि पंक्तिविराजित-तत्त्व विभासितवर्णधरा, भवतीह तदा किल दुर्मिलका सखि ! नेत्रविभावसुभासिकला ॥५७८।। यथा गिरिराजसुताकमनीयमनङ्गविभङ्गकरं नृकपालधरं, परिधूतगजाजिनवाससमुद्धतनृत्यकरं शशिखण्डवरम् । गरलान लभूषित-दीनदयालमदभ्रमदोद्धतनीलगलं, प्रणमामि विलोलजटातटगुम्फितशेषकलानिधिभालतलम् ।। ५७६ ।। यथा वा, भूषणे'' कति सन्ति न गोपकुले ललिताः स्मरतापहताश्च विहाय च ताः, रतिकेलिकलारसलालसमानसमागतमुज्झितमानरसम् । वनमालिनमालि नमस्य नमस्य नमस्य मुदस्य चिरस्य वृथा, भविता परितापवती भवती युवती जनसंसदि हासकथा ।। ५८० ।। ___ इति दुर्मिलका २५२. टिप्पणी---१ वाणीभूषणम्, द्वि० अ० पद्य ३१८
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy