________________
प० ५७२- ५७५ ]
१. वृत्तनिरूपण - प्रकरण
[ १७९
इयमेवास्माभिः पूर्वखण्डे मल्लिका सवया इत्युक्ता । सा तत एवावधारणीया ।
२४९. अथ मत्ताक्रीडम्
यस्मिन्नष्टी पूर्वं हारास्तदनु च मनुमित लघुमिह रचयेत्', पादप्रान्ते चैकं हारं विकचकमलमुखि ! विरचय नियतम् । मत्ता क्रीडं वृत्तं बाले ! वसुतिथियतिकृत रतिसुखनिवहं, कुन्तीपुत्रं वेदैरुक्तं निगमनगणमपि विरचय सगणम् ।। ५७२ ।।
यथा
नव्ये कालिन्दीये कुञ्जे सुरभिसमय मधुमधुरसुखरसं, रासोल्लासक्रीडारङ्गे युवतिसुभगभुज रचितवरवशम् । सान्द्रानन्दं मेघश्यामं मुरलिमधुर रवविमुषितहरिणं, वृन्दारण्ये दीव्यत्पुण्ये स्मरत परममिह हरिमनवरतम् ।। ५७३ ।।
इति मत्ताक्रीडम् २४६.
२५०. प्रथ कनकवलयम्
सुतनु ! सुदति ! मुनिमितमिह सुनगणमिति ह विरचय, तदनु विकचकमलमुखि ! सखि ! खलु लघुयुगमुपनय । दहननयन मितलघुमिह पदगतमपि परिकलय, कनकवलयमिति कथयति भुजगपतिरिति तदवय ।। ५७४ ।।
यथा
कनकवलय रचितमुकुट ! * विधूतलकुट ! निकटबल !, शमितशकट ! कनकसुपट ! दलितदितिजसुभटदल ! । कमलनयन * ! विजितमदन ! युवतिवलयरचितलय !, तरलवसन ! विहितभजन ! धरणिधरण ! जय ! विजय ! ॥ ५७५ ।। इति कनकवलयम् २५०.
६ अत्रापि प्रस्तारगत्या त्रयोविंशत्यक्षरस्य त्र्यशीतिलक्षाणि श्रष्टाशीतिसहस्राणि अष्टोत्तराणि षट्शतानि च ८३८८६०८ भेदा भवन्ति तेषु प्रष्टी भेदाः प्रोक्ताः, शेषभेदाः प्रस्तार्य गणयतिवर्णनामसहितास्समुदाहरणीया इति दिगुपदिश्यते 1 इति त्रयोविंशः क्षरम् ।
*
२. ख. परवशम् । ३. क. सान्द्रावक्षं ।
१. ख. रचयेः । ४. ख. ललितमधुर । ५. ख. च तदय । ६. पंक्तित्रयं नास्ति क प्रतौ । * * चिह्नगतोऽयं पाठः क. प्रतो नास्ति । *टिप्पणी - १ त्रत्रोविंशत्यक्षरवृत्तस्य ग्रंथान्तरेषु लब्धशेषभेदाः पञ्चमपरिशिष्टे पर्यालोच्याः ।