SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ १७० ] वृत्तमौक्तिक - द्वितीयखण्ड [५० ५६७ - ५७१ पवनविधूतवीचिचपलं विलोकयति जीवितं तनुभृतां, न पुनरहीयमानमनिशं जरावनितया वशीकृतमिदम् । सपदि निपीडनव्यतिकरं यमादिव नराधिपान्नरपशुः, परवनितामवेक्ष्य कुरुते तथापि हतबुद्धिरश्वललितम् ॥ ५६७ ॥ __ इति प्रत्युदाहरणम् । 'अत्रापि गणयतिवर्णविन्यासस्तु पूर्ववदेव, नाममात्रे भेदः, फलतो न कश्चिद् विशेषः ।। २४७. अथ मालती अत्रैव सप्तभगणानन्तरं गुरुद्वयदानेन मालतीवृत्तं भवति । लक्षणं च यथाइयमेव सप्तभगणादनन्तरं भवति मालतीवृत्तम् ।। यदि गुरुयुगलोपहिता पिङ्गलनागस्तदाख्याति ।। ५६८ ॥ यथ चन्द्रकचारुचमत्कृतिचञ्चलमौलिविलुम्पितचन्द्रकिशोभं, वन्यनवीनविभूषणभूषितनन्दसुतं वनिताधरलोभम् । धेनुकदानवदारणदक्ष-दयानिधि-दुर्गमवेदरहस्यं, नौमि हरि दितिजावलिमालितभूमिभरापनुदं सुयशस्यम् ॥ ५६६ ।। इति मालती २४७. इयमेव अस्माभिः पूर्वखण्डे मालती सवया इत्युक्ता। [सा तत एवावलोकनीया] किञ्च २४८. प्रथ मल्लिका सप्तजगणादनन्तरमपि चेल्लघुगुरुनिवेशनं भवति । जल्पति पिङ्गलनागः सुकविस्तन्मल्लिकावृत्तम् ।। ५७० ।। यथा धुनोति मनो मम चम्पककाननकल्पितकेलिरयं पवनः, कथामपि नैव करोमि तथापि वृथा कदनं कुरुते मदनः । कलानिधिरेष बलादयि मुञ्चति वह्निकलापमलीकहिमः, विधेहि तथा मतिमेति यथा सविधेन पथा व्रजभूमहिमः ।। ५७१ ॥ इति मल्लिका २४८. ३. ख. भरापनुदे । १. ख. उदाहरणम्। २-२. चिह्नगोऽयमंशो नास्ति क. प्रतो। ४. ख. हितः। ५. ख. व्रजभूमहितः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy