________________
प०५६३ -५६६ ]
१. वृत्तनिरूपण - प्रकरण
[ १६९
यमुनातटकुञ्ज सतिमिरपुञ्ज कारितरासविलासपरं, मुखनिजितचन्द्रं विगलिततन्द्रं चिन्तय चेतसि चित्तहरम् ।। ५६३ ॥
इति पद्मावतिका २४५[२].
२४६. अथ अद्वितनया सहचरि ! चेन्नजौ भजगणौ भजौ च भवतस्ततो भलगुरू, शिवविरतिस्तथैव विरतिः प्रभाकरभवा भवेच्च नियता' । प्रतिपदमत्र वह्निनयनाक्षरैर्गणय पादमिन्दुवदने !,
जगति जया प्रकाशितनया जनैः किल विभाविताऽद्रितनया ॥५६४ ॥ प्रकारान्तरेणापि लक्षणं यथा
सुदति ! विधेहि नं तदनु जं ततोऽपि भगणं ततश्च जगणं, तदनु च देहि भं तदनु जं ततोऽपि भगणं ततो लघुगुरू । । कुरु विरति शिवे दिनकरे यति सुरुचिरां विभावितनयां, दहनविलोचनाक्षरपदां विधेहि सुभगें ! मुदाऽद्रितनयाम् ॥ ५६५ ।।
यथा
नयनमनोरमं विकसितं पलाशकुसुमं विलोक्य सरसं, विकचसरोरुहां च सरसी विभाव्य सुभृशं मनोऽतिविरसम् । गगनतलं च चन्द्रकिरणैः कणैरिव' विभावसोस्सुपिहितं,.. सहचरि ! जीवनं न कलये विना सहचरं विधेहि विहितम् ॥ ५६६ ।।
यथावा
'विलुलितपुष्परेणुकपिशप्रशान्तकलिकापलाशकुसुमम् ॥' इत्यादि भट्टिकाव्ये *
इति प्रद्रितनया २४६. अश्वललितमिदमन्यत्र*, तथाहि
१. ख. नियमा। २. ख. सुभगं। ३. ख. करणरिव । * टिप्पणी-१ 'विलुलितपुष्परेणुकपिशं प्रशान्तकलिका-पलाशकुसुमं,
कुसुमनिपातविचित्रवसुधं सशब्दनिपतद् द्र मोत्कशकुनम् । शकुननिनादनादिककुब्विलोलविपलायमानहरिणं, हरिणविलोचनाधिवसतिं बभञ्ज पवनात्मजो रिपुवनम् ।।
भट्टिकाव्य, स० ८, प. १३१] २ वृत्त रत्नाकर-नारायणीटीका अ०३; का० १०६ ।