________________
१६८ ]
वृत्समौक्तिक - द्वितीयखण्ड
[प. १५८-५६२.
यथा
अथ त्रयोविंशाक्षरम् तत्र पूर्वम्
२४४. दिव्यानन्दः कुन्तीपुत्रा यस्मिन् वृत्ते दिक्संख्याताः सैकाः शोभन्ते प्रान्ते चैको हारः, रौर्नेौर्यस्मिन् सर्वैर्वर्णैर्वा सोऽयं दिव्यानन्दश्छन्दोग्रन्थे सारः । विश्रामः स्यात् षड्भिः कर्णैर्यस्मिस्तद्वत् साढ़ेंः ' पाण्डोः पुत्रर्वा स्यात्तस्यान्ते, बाले ! लीलालोले! कामक्रीडासक्ते!पूर्वोक्तं दिव्यं वृत्तं धेहि स्वान्ते ॥५५८।। वन्दे देवं सर्वाधार विश्वाध्यक्ष लक्ष्मीनाथं तं क्षीराब्धौ तिष्ठन्तं, यो हस्तीन्द्रं भक्तं ग्राहग्रस्तं मत्वा हित्वाप्तं सर्वं स्त्रीवर्ग भासन्तम् । आरूढः सौपर्णे पृष्ठेऽनास्तीर्णेपि प्राप्तश्चक्री वेगादेवोच्चैः क्रीडत्, व्यापाद्यामुं नक्तं' मध्ये वक्त्रं सद्यस्तं दन्तीन्द्रं संसारान्मुक्तं कुर्वन् ।।५५६।।
इति दिव्यानन्द: २४४.
२४५ [१]. अथ सुन्दरिका करयुक्तसुपुष्पद्वयललिता ताटङ्कमनोहरहारधरा, द्विजकर्णविराजत्पदयुगला गण्डेन सुमण्डितकुण्डलका । यदि सप्तविभिन्ना शरविरतिः शर्वैरपि चेद्विहतिविहिता, किल सुन्दरिका सा फणिभणिता नेत्राग्निकला कविराजहिता ॥५६०।। सखि ! पङ्कजनेत्रं मुरहरणं विज्ञ कमनीयकलाललितं, वरमौक्तिकहारं सुखकरणं रम्यं रमणीवलये वलितम् । तरुणीजनचित्तं वरतरुणं भव्यं भवभीतिविनाशकरं, घनकुञ्चितकेशं मुनिशरणं नित्यं कलयेऽखिलदैत्यहरम् ॥ ५६० ।।
इति सुन्दरिका २४५[१].
२४५[२]. अथ पद्मावतिका सुन्दरिकैव हि बाले ! यदि मुनिरसदशविरामिणी भवति । विज्ञापयन्ति तज्ज्ञाः पद्मावतिकेति नयनदहनकमलाम् ॥ ५६२ ।।
यथा
यथा
सखि ! नन्दकुमारं तनुजितमारं कुण्डलमण्डितगण्डयुगं, हतकंसनरेशं रचितसुवेशं कुञ्चितकेशमशेषसुगम् ।
१. ख. शेषैः। १. ख. न ।