________________
५० ५५४ - ५५७ ]
१. वृत्तनिरूपण - प्रकरण
[ १६७
यथा वा
मन्दाकिनीपुलिनमन्दारदामशतवृन्दारकाच्चितविभो'! नारायणप्रखरनाराचविद्धपुरनारा धिदुष्कृतवता । गङ्गाचलाचलतरङ्गावलीमुकुटरङ्गावनीमतिपटो!
गौरीपरिग्रहणगौरीकृतार्द्ध तव गौरीदृशी श्रुतिगता ॥५५४।। यथा वा, अस्मद्वृद्धप्रपितामहकविपण्डित मुख्यश्रीमदरामचन्द्र भट्टकृतनारायणाष्टके
कुन्दातिभासि शरदिन्दावखण्डरुचि वृन्दावनत्रजवधूवृन्दागमच्छलनमन्दावहासकृतनिन्दार्थवादकथनम् । वन्दारुविभ्यदरविन्दासनक्षुभितवृन्दारकेश्वरकृत
च्छन्दानुवृत्तिमिह नन्दात्मजं भुवनकन्दाकृति हृदि भजे ।। ५५५ ॥ इत्यादि महाकविप्रबन्धेषु शतशः प्रत्युदाहरणानि ।
इति मदालसम् २४२.
२४३. अथ तरुवरम् सहचरि ! रविहयपरिमित सुनगणमिह विरचय, तदनु शिशिरकरपरिमित कुमुममिह परिकलय । कविवरसकलभुजगपतिनिगदितमिदमनुसर, नवरससुघटित-नरवरसुपठित-तरुवरमिति ।। ५५६ ।। अवनतमुनिगण ! करधृतगिरिवर ! सदवनपर !, त्रिभुवननिरुपम ! नरवरविलसित ! सकपटवर ! । दमितदितिजकुल ! कलितसकलबल ! सततसदय !,
सरभस विदलितकरिवर ! जय ! जय ! निगमनिलय ! ॥ ५५७ ।। अत्र प्रायोऽष्टाष्टरसैविरतिरित्युपदेशः ।
इति तरुवरम् २४३. अत्रापि प्रस्तारगत्या द्वाविंशत्यक्षरस्य एकचत्वारिंशल्लक्षाणि चतुर्नवतिसहस्राणि चतुरुत्तरं शतत्रयं ४१६४३०४ भेदाः, तेषु भेदाष्टकमुक्तम् । शेषभेदास्तु शास्त्ररीत्या प्रस्तार्य प्रतिभावद्भिरुदाहर्त्तव्याः । इति दिङ मात्रमुपदिश्यते ।
___ इति द्वाविंशत्यक्षरम् । ।
यथा
१. ख. विभा। .२ख. गतिपटो। ३. ख. तदुदाहरणम् । *टिप्पणी-१. लब्धाः शेषभेदा द्रष्टव्याः पञ्चमपरिशिष्टे ।