SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ १६६ ] यथा यथा यथा वृत्तमौक्तिक द्वितीयखण्ड - [ १० ५४२ - ५५३ कृष्णपदारविन्दयुगलं नमन्ति ननु ये जनाः सुकृतिनः, संसृतिसागरं सुविपुलं तरन्ति मुदितास्त एव कृतिनः । दिव्यधुनीत रङ्गललिते तटे कृतकुटाः स्मरन्ति परमं, धाम निरन्तरं मनसि तज्जराकवलितं जनुर्न चरमम् ।। ५४९ ।। इति शिखरम् २४०. मन्द्रकस्य गणा एव अत्रापि यतिकृत एव परं भेदः । २४१. श्रथ प्रच्युतम् सलयुग - निगमनगणमिह * कुरु पक्षि - पाणिसभाजितं, तदनु च रचय कमलमुखि ! सखि ! पुष्पहारविराजितम् । निगमशिशिरकरविरचितयतियोगबद्ध विभावितं, कविवरफणिपतिसुभणितमिति' मानसे कलयाच्युतम् ।। ५५० ।। सघनतिमिरुभरभरितविपिनमात्मनैव विभावितं, न खलु सहचरि ! वितनु विदलितमाश्रयामि सुजीवितम् । कनकनिभवसनमरुणनयनमानयाशु मनोहरं, सृणमणिगणखचिततनुमपि हारयामि तमोहरम् ।। ५५१ ।। इति श्रच्युतम् २४१. २४२. अथ मदालसम् कर्णं कार - रसयुग्मं विधेहि सखि ! कर्णं ततः कुरु रसं, हारं नकारमथ कर्णं नरेन्द्रमिह हस्तं विधेहि च ततः । सूर्याश्वसप्तति कुर्याद् यथाभिरुचि पश्चाद् वसौ च विरतिः, नेत्रद्वयेन कुरु पादान्तवर्णमिति वृत्तं मदालसमिदम् ।। ५५२ ।। शम्भो ! जय प्रणमदम्भोजनामविधिदम्भोलिपाणितरणे रम्भोरुगाढपरिरम्भोपभोगदिवि रम्भोपगीतसततम् । स्तम्भोदयप्रणतजम्भोपघाति' शिशुदम्भोपकल्पिततनो !, रम्भोदरप्रतिमशंभो ! जयामलविदम्भोधि*वर्द्धनविधो ! ।। ५५३ ।। १. क. सुभाषितमिति । २. ख. विति । ३. ख. जम्भो च घाति । ४. ख. चिदम्भोधि । * टिप्पणी - १. 'सलयुग निगमनगरणमिह' इह - प्रच्युतवृत्ते लघुद्वयसहितंच तुर्नगरणमर्थात् चतुर्दशलध्वक्षरमंत्र 'कुरु' रचयेत्यर्थः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy