SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ५० ५४४ . ५४८] १. वृत्तनिरूपण - प्रकरण [ १६५ ___ २३८. अथ मदिरा आदिगुरुं कुरु सप्तगणं सखि ! पिङ्गलभाषितमन्तगुरुं, पंक्तिविराजि-यतिं च ततः कुरु सूर्यविभासियतिं च ततः । चिन्तय चेतसि वृत्तमिदं मदिरेति च नाम यतः प्रथितं, सप्तभकारगुरूपहितं बहुभिः कविभिर्बहुधा कथितम् ।। ५४४ ॥ यथा मा कुरु माविनि ! मानमये वनमालिनि सन्तति' सालिनि हे, पाणितलेन कपोलतलं न विमुञ्चति सम्प्रति किं मनुषे । यौवनमेतदकारणकं न हि किञ्चिदतोऽपि फलं तनुषे, कुञ्जगतं परिशीलय तं परिलम्बमिदं सखि ! किं कुरुषे ॥ ५४५ ।। इति मदिरा २३८. इयमेव अस्माभिर्मात्राप्रस्तारे पूर्वखण्डे सवयाप्रकरणे मदिराभिसन्धाय सवया इत्युक्ता, सा तत एवावधारणीया । २३६. अथ मन्द्रकम् कारय भं ततोपि रगणं ततो नरन रास्ततश्च न-गुरू, दिग्रविभिर्भवेच्च विरतिविलोचनयुगेरपीन्दुवदने ! । कल्पय पादमत्र रुचिरं कवीन्द्रवरपिङ्गलेन कथितं, मन्द्र कवृत्तमेतदबले ! सुभाषितमहोदधेः सुमथितम् ।। ५४६ ।। यथा दिव्यसुगीतिभिः सकृदपि स्तुवन्ति भवये (भुवि ये) भवन्तमभयं, भक्तिभराषनम्रशिरसः कृताञ्जलिपुटा निराकृतभवम् । ते परमीश्वरस्य पदवीमवाप्य सुखमाप्नुवन्ति विपुलं, मयंभुवं स्पृशन्ति न पुनर्मनोहरसुताङ्गनापरिवृताः ।। ५४७ ।। ' इति मन्द्रकम् २३६. २४०. अथ शिखरम् मन्द्रकमेव हि वृत्तं यदि दशरसयुगविरति भवेत् । शिखरं तदत्र बाले ! कथितं कविपिङ्गलेन तदा ।। ५४८ ।। १. ख. सन्नतिशालिनी।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy