________________
१६२ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० ५३१ - ५३४
मानिनि ! मानकारणमिह' जहिहि नन्दय तं सखि ! कृष्णं,
चिन्तय चिन्तनीयपदमनुमतमाकलयाशु सतृष्णम् । जीवय जीवजातमुपगतमपि मा कुरु मानसभङ्ग,
केवलमेव तेन सह सहचरि ! सन्तनु तत्तनुसङ्गम् ॥ ५३१॥
यथा वा
पङ्कज कोषपानपरमधुकरगीतमनोज्ञतडागः,
पञ्चमनादवादपर परभृतकाननसत्परभागः । वल्लभविप्रयुक्तकुलवरतनुजीवनदानदुरन्तः, किं करवाणि वक्षि मम सहचरि ! सन्निधिमेति वसन्तः । ५३२।
इति नरेन्द्रः २३२..
२३३ अथ सरसी सहचरि ! नो यदा भवति सा कथिता सरसी कवीश्वरै
यदि तु जभौ जजौ च भवतोपि जरौ समनन्तरं परैः । इह विरती यदा शरविलोचनजे भवतो मुनीश्वरैः,
शिशिरकरैस्सदा भवति लोचनतो गणनापदाक्षरैः ।। ५३३ ।।
यथा
नमत सदा जनाः प्रणतकल्पतरुं जगदीश्वरं हरि,
प्रबलहृदन्धकारतरणिं भवसागरपारसन्तरिम् ।। सकलसुरासुरादिजनसेवितपादसरोरुहं परं,
जलरुहशङ्खचक्रकमनीयगदाधरसुन्दराम्बरम् ।। ५३४ ।। यथावा'तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः।' इत्यादि माघकाव्ये''।
इति सरसी २३३. सुरतरुरिति अन्यत्र । सिद्धकम् इति क्वचित् ।
१. क. मानकारिणिमिह । २. ख. पञ्चमनादगानपर। ३. ख. परिध *टिप्पणी-१. 'तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः,
प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता। परिचलतो बलानुजबलस्य पुरः सततं धृतश्रियश्चिरविगतश्रियो जलनिधेश्च तदाभवदन्तरं महत् ।। ८२ ॥
[शिशुपालवधम्-स० ३, प० ८२] २. वृत्तरत्नाकरः, नारायणीटीकायाम्-अ. ३, का. १०४