________________
५० ५२५ - ५३० ]
१. वृत्तनिरूपण - प्रकरण
[ १६१
यथा
यथा पा, कृष्णकुतूहलेकेशिद्वेषिप्रसूश्च क्वचिदथ समये सद्मदासीषु कार्य-'
___व्यग्रासु प्रग्रहान्तग्रहणचलभुजाकुण्डलोद्ग्रीवसूनुः । पुत्रस्नेहस्नुतोरुस्तनमनणरणत्कङ्कणक्वाणमुद्यत्कम्पस्विद्यत्कपोलं दधिकचविगलद्दामबन्धं ममन्थ ।।५२५।।
इति स्रग्धरा २३०.
२३१. अथ मञ्जरी' कङ्कणं कुरु मनोहरं तदनु सुन्दरं रचय तुम्बुरं,
सुन्दरी कलय सुन्दरी तदनु पक्षिणामपि पतिं ततः ! भावमातनु ततः परं सुतनु ! पक्षिणं च कुरु सङ्गतं,
__भावमेव कुरु मञ्जरी [तदनु] जोहलं विरचयांततः ।।५२६।। रगणनगणक्रमेण च सप्तगणा भान्ति यत्र संरचिताः । . नव-रस-रसयतिसहितां वदन्ति तज्ज्ञास्तु मञ्जरीमिति ताम् ।। ५२७ ।। हारनूपुरकिरीटकुण्डलविराजितां वरमनोहरं,
सुन्दराधरविराजिवेणुरवपूरिताखिलदिगन्तरम् । नन्दनन्दनमनङ्गवर्द्धनगुणाकरं परमसुन्दरं,
चिन्तयामि निजमानसे रुचिरगोपगोधनधुरन्धरम् ।। ५२८ ।। यथा वा, श्रीशङ्कराचार्याणां नवरत्नमालिकायाम्दाडिमीकुसममञ्जरीनिकरसुन्दरे मदनमन्दिरे,
यामिनीरमणखण्डमण्डितशिखण्डके तरलकुण्डे (कुण्डले) । पाशमंकुशमुदञ्चितं दधति कोमले कमललोचने ! ___तावके वपुषि सन्ततं जननि ! मामकं भवतु मानसम् ।।५२६।।
इति मञ्जरी २३१.
२३२. प्रथ नरेन्द्रः कुण्डलवज्ररज्जुमुनिगणयुतहस्तविराजितशोभः,
पाणिविराजिशंखयुगवलयित-कङ्कणचामरलोभः । कामविशोभयोगवरविरतिगचन्द्रविलोचनवर्णः,
पनगराजपिङ्गल इति गदति राजति वृत्तनरेन्द्रः ।। ५३० ।।
*टिप्पणी-१ मञ्जरीवृत्तस्य लक्षणोदाहरणप्रत्युदाहरणानि नैव सन्ति क. प्रतौ।