________________
१६० ]
तत्र प्रथमम् -
यथा
वृतमौक्तिक - द्वितीयखण्ड
श्रथ एकविंशाक्षरम्
२२६. अथ ब्रह्मानन्दः
यस्मिन् वृत्ते पंक्तिः ख्याता शोभन्तेऽत्यन्तं कर्णाः प्रान्ते चैकोहारः, नागाधीश प्रोक्तोऽपारः सारोद्धारो ब्रह्मानन्दो वृत्तानां सारः । विश्रामश्च प्रायो यस्मिन् वेधः श्रोत्रैः शैलेन्द्रैः शस्त्रैर्वा स्यात् प्रान्ते, विंशत्याः वर्णै रेकाग्रैः संयुक्तैर्लीलालोले सोऽयं ज्ञेयः कान्ते ! ॥ ५२० ॥
सर्वं कालव्यालग्रस्तं मत्वा स्त्रीषु व्यासङ्गं हित्वा कृत्वा धैर्यं, कालीन्दीये कुञ्जे कुञ्जे भ्राम्यद्भृङ्गः संगीते भ्रातृमुक्त्वा क्रौर्यम् । श्रीगोविन्दं वृन्दारण्ये मेघश्यामं गायन्तं वेणुक्वाणैर्मन्दं,
ब्रह्मानन्दं प्राप्याज
ध्यात्वा चेतः साफल्यं घेहि स्वान्तेऽमन्दम् ॥५२१ इति ब्रह्मानन्दः २२६.
२३०. प्रथ स्रग्धरा
आदौ मो यत्र बाले ! तदनु च रगणः स्यात् प्रसिद्धस्तु यस्यां
पश्चाद् भं चापि नं च त्रिगुणितमपि यं धेहि कान्ते ! विचित्रम् । शैलेन्द्रः सूर्यवाहैरपि च मुनिगणैर्दृश्यते चेद् विरामः,
यथा, ममैव पाण्डवचरिते -
[ ० ५२० - ५२४
कामव्यासक्तचित्ते सुदति ! निगदिता स्रग्धरा सा प्रसिद्धा ।। ५२२ ।
तुष्टेनाथ द्विजेन त्रिदशपतिसुतस्तत्र दत्ताभ्यनुजः,
कर्णोपि प्राप्तमान सदसि कुरुपतेर्द्वन्द्वयुद्धार्थमागात् ।
जम्भारातिः स्वसूनोरुपरि जलधरैस्संव्यधादातपत्रं,
ausiशुचापि कर्णोपरिनिजकिरणानातताना तिशीतात् ॥ ५२३॥
यथा वा, मत्पितुः खङ्गवर्णने -
सङ्ग्रामारण्यचारी विकटभटभुजस्तम्भभूभृद्द्द्विहारी, शत्रुक्षोणीशचेतोमृगनिकरपरानन्द विक्षोभकारी ।
माद्यन्मातङ्गकुम्भस्थल गलदमलस्थूलमुक्ताग्रहारी,
स्फारीभूताङ्गधारी जगति विजयते खङ्गपञ्चाननस्ते ।। ५२४ ॥