________________
प० ५३५ - ५३८ ]
यथा
१. वृत्तनिरूपण - प्रकरण
२३४. प्रथ रुचिरा
कुरु नगणं ततो रचय भूमिपति दहनं च सुन्दरं,
तदनु विधेहि जं त्रिगुणितं ललितं विहगं ततः परम् । मुनि मुनिभिर्भवेद्विरतिरप्यतुला सुकला मनोहरा,
यथा
नयनमनोहरं परमसौख्यकरं सखि ! नन्दनन्दनं,
कनकनिभांशुकं त्रिजगतीतिलकं मुरलीविनोदनम् । भुवनमहोदयं घनरुचि रुचिरं कलये सदोन्नतं ',
सुकविवरैः परा निगदिता रुचिरा परमार्थतो वरा ।। ५३५ ।।
सुरकुलपालकं श्रुतिनुतं सदयं दयितं श्रियः पतिम् ।। ५३६ ।। इति रुचिरा २३४.
२३५. श्रथ निरुपमतिलकम्
सुतनु ! सुदति । सरसमुनिमितनगणमिह रचय, शिशिरकरजनयनमित सुपदमपि परिकलय |
[ १६३
कनककटकवलयकलितकरकमलमुपनय,
फणिपतिभणितमिह निरुपमतिलकमिति कथय ।। ५३७ ।।
जय ! जय ! निरुपम ! दिशि दिशि विलसितगुणनिकर !, करधृतगिरिवर ! विगणितगुणगणवरसुकर ! । कनकवसनकटकमुकुटकलित ! मिलितललन !.
विजितमदन ! दलितशकट ! सबलदितिजदलन ! ।। ५३८ ॥
इति निरुपमतिलकम् २३५.
त्रापि प्रस्तारगत्या एकविंशत्यक्षरस्य नखलक्षं सप्तनवतिसहस्राणि द्विसमधिकपञ्चाशदुत्तरं शतं २०६७१५२ भेदा भवन्ति तेषु भेदसप्तकं प्रोक्त, शेषभेदाः सुधीभिः स्वबुद्ध्या प्रस्तार्य सूचनीया इति दिक् । *1
इति एकविंशाक्षरम् ।
१. ख. सदोति । २. पंक्तित्रयं नास्तिक, प्रतौ ।
*टिप्पणी - १ एकविंशत्यक्षरवृत्तस्य ग्रन्थान्तरेषु लब्धशेषभेदाः पञ्चमपरिशिष्टे द्रष्टव्याः