SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ १५८. ] * यथा वा, हलायुध भट्टविरचित छन्दोवृत्तौ ' वृत्तमौक्तिक - तीयखण्ड या पीनाङ्गोरुतुङ्ग'स्तनजघनघनाभोगालसगति र्यस्याः कर्णावतंसोत्पलरुचिजयिनी दीर्घे च नयने । सीमा सीमन्तिनीनां मतिलडहतया या च त्रिभुवने, यथा सम्प्राप्ता साम्प्रतं मे नयनपथमसौ दैवात् सुवदना ।। ५११ ।। इति सुवदना २२४. २२५. श्रथ प्लवङ्गभङ्ग मङ्गलम् यदा लघुगुरु निवेश्यते तदा प्लवङ्गभङ्गमङ्गलं, जरौ जरौ जरौ रसप्रयुक्तमुच्यते लगौ सुमङ्गलम् । कवीन्द्रपिङ्गलोदितं सुशङ्ख हारभूषितं मनोहरं, [ ० ५११-५१५ नवीनमेघसुन्दरं भजे भूपुरन्दरं विभुं वरं, प्रमाणिका-पदद्वयेन पूर्यते च यच्च पञ्चचामरम् ।। ५१२ ।। यथा विलासिनीभुजान्तरानिरुद्धमुग्धविग्रहं स्मरातुरं, प्रकामधामभासुरं दधानमद्भुताम्बरं दयापरम् । चराचरादिजीवजातपातकापहं जगद्धुरन्धरम् ।। ५१३ ।। इति प्लवङ्गभङ्गमङ्गलम् २२५. २२६. अथ शशाङ्कचलितम् कर्णः पयोधरकरौ यदा च भवतो विलासललिते, ज्ञेयस्ततः सुतनु ! जः सुहस्तकलितः शशाङ्कचलिते । ततोऽपि चेद् भवति जः सुपाणिघटितो वसौ च विरति स्ततौ रसैरपि यतिः कलावति भवेत् पुना रसयतिः ।। ५१४ । । कृष्णं प्रणौमि सततं बलेन सहितं सदा शुभरतं, कल्याणकारिचरितं सुरैरभिनुतं प्रमोदभणितम् * । कंसादिदर्पदलनं च कलाकुतुकिनं विलासभवनं, संसारपारकरणं परोदयकरं सरोजनयनम् ॥ ५१५ ।। इति शशाङ्कचलितम् २२६. १. मा पोनो गाढतुङ्ग - ' हलायुधे' । २. श्यामा सीमन्तिनीनां ' हलायुधे' । अदभुतं वरम् । ४ ख भरितम् । * टिप्पणी - १. अध्याय ७, कारिकाया २३ उदाहरणम् । ३. ख.
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy