SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ५० ५०६ - ५१०] १. वृत्तनिरूपण - प्रकरण [ १५७ यथा यथा वा, भूषणे * प्रत्युदाहरणम्दृष्टमस्ति वासुदेव विश्वमेतदेव शेष[वक्त्र]कं तु', वाजिरत्नभृत्यदारसूनुगेहवित्तमादिवन्नवं तु । त्वत्पदाब्जभक्तिरस्तु चित्तसीम्नि वस्तुतस्तु सर्वदैव, _शेषकाललुप्तकालदूतभीतिनाशनीह हन्त सैव ॥ ५०६ ।। क्वचिदियमेव चित्तवृत्तम् इति । केवलं वृत्तमात्रमन्यत्र । इति गण्डको २२२. २२३. अथ शोभा यकारः प्रागस्ते तदनु च मगणः कथ्यते यत्र बाले !, ततोऽपि स्यात् पश्चाद् यदि नगणयुगं स्यात्तकारद्वयं च । ततश्चान्ते हारद्वयमुपरितनं कारयाशु प्रकामं, रसैरश्वैश्छिन्ना मुनिविरतिगता भासते काऽपि शोभा ॥५०७॥ रमाकान्तं वन्दे त्रिभुवनशरणं शुद्धभावैकगम्यं, विरञ्चेः स्रष्टारं विजितघनरुचिं वेदवाचावगम्यम् । शिवं लोकाध्यक्ष समरविजयिनं कुन्दवृन्दाभदन्तं (वदातं), - सहस्रा/रूपं विधृतगिरिवरं हार्दकजे वसन्तम् ॥ ५०८ ।। इति शोभा २२३. २२४. अथ सुवदना आदौ मो यत्र बाले ! तदनु च रगणो जङ्घासुघटितः, __ पश्चाद्देयो नकारस्तदनु च यगणस्तातेन रचितः । कायौं तत् पार्श्वदेशे तदनु लघुगुरू ज्ञेया सुवदना, नागाधीशेन नुन्ना नखमितचरणा नव्या सुमदना ॥ ५०६ ।। श्रीमन्नारायणं तं नमत बुधजना संसारशरणं, ___ सर्वाध्यक्ष वसन्तं निजहृदि सदयं गोपीविहरणम् । कल्याणानां निधानं कलिमलदलनं वाचामविषयं, क्षोराब्धौ भासमानं दमितदितिसुतं वेदान्तविषयम् ॥ ५१० ॥ यथा १. शेषवक्त्रभाजि 'वाणीभूषणे । *टिप्पणी-१ वाणीभूषणम्, द्वि० अ०, पद्य ३१८ २ छन्दोमञ्जरी, द्वि० स्तबक, का० २०६ एवं वृत्तरत्नाकरः, प्र० ३, का. १०३
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy