________________
१५६ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० ५०१ - ५०५
२२१. अथ गीतिका कुरु हस्तसंगिसुशङ्खकङ्कणरूपरावसमन्वितं,
वरपक्षिराजविराजितं नवगन्धयुग्मविभूषितम् । कुरु वल्लकोरवधारिणं रसमुग्धसुन्दररूपिणो
रवयुक्तनूपुरमत्र धेहि विधेहि भामिनि ! गीतिकाम् ॥ ५०१ ॥
यथा
अयि ! मुञ्च मानमवेहि दानमुपैहि कुञ्जगतं हरिं,
नवकञ्जचारुविलोचनं भयमोचनं भवसन्तरिम् । कुरुषे विलम्बमकारणं सखि ! साधयाशु मनोरथं,
ननु खिद्यसेऽतिभृशं वृथैव जनुर्विधारयसे कथम् ।। ५०२ ।। यथा वाअलमीश-पावक-पाकशासन-वारिजासनसेवया,
गमितं जनुर्जनकात्मजापतिरप्यसेव्यत नो मया। करुणापयोनिधिरेक एव' सरोजदामविलोचनः,
स परं करिष्यति दुःखशेष'मशेषदुर्गतिमोचनः ।। ५०३ ।। 'अथ सालतालतमालवञ्जुलकोविदारमनोरमा' इत्यादि। शिको काव्ये च प्रत्युदाहरण मिति ।
इति गीतिका २२१.
२२२. अथ गण्डका' हारपुष्पसुन्दरं विधेहि तन्मनोहरं मनोहरेण,
नागराजकुञ्जरेण भाषितं च रेण यत्पयोधरेण । अन्तगेन चामरेण राजितं विराजितं च काहलेन,
गण्डकेति यस्य नाम धारितं सुपण्डितेन पिङ्गलेन ॥ ५०४ ॥ देव! देव! वासुदेव! ते पदाम्बुजद्वयं विभावयेम,
नाम पुष्पदाम धामतेजसां सदा हृदा विधारयेम । तावदेव सारवस्तु नान्यदस्ति किञ्चनात्र धारितेन,
___ वाजिराजिकुञ्जरादिसाधनेन तेन किं विभावितेन ।। ५०५ ।।
यथा
१. ख. एक। २. ख. दुःखनाश । ३. ख. तदुदाहरणम्। ४. ख. पुष्पदान । *टिप्पणी- १ वृत्तस्यास्य निर्दिष्टलक्षणंकारिका परिस्फुटा नवास्ति किन्तु ग्रन्थकर्तृ यंद
भीष्टं तदुदाहरणेनैवं परिज्ञायते-'यच्छन्दसि हारपुष्पयोः (1) नववारमनुक्रमेण योजनं तदनु चामर-काहलयोः (s1)न्यसनं भवेत्तद् गण्डकावृत्तं स्यादिति ।