SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ १५४ ] वृत्तमौक्तिक - द्वितीयखण्ड [५० ४६२ - ४६६ ww wwwwAAAAAAAA यथा भवच्छेदे दक्षं दितिसुतकुलध्वान्तस्य विध्वंसने, सदाभिं वक्षःस्थलगतलसद्रत्नांशुभिर्भूषितम् । वधूभिर्गोपानां तरणितनयाकुङ्गेषु रासस्पृहं, सदा नन्दादीनाममितसुखदं गोपालवेषं भजे ॥ ४६२ ।। इति छाया २१६. २१७. अथ सुरसा कर्णद्वन्द्वं विराजत् कुसुमसुललितं कुण्डलयुगं, संबिभ्राणा ततोपि द्विजमथ च करं कङ्कणयुतम् । रूपाढ्या दिव्यरावा कुसुमविलसिता नूपुरयुता, शैलैरश्वश्च बाणविरचितविरति ति सुरसा ॥ ४६३ ॥ यथा गोपालं केलिलोलं व्रजजनतरुणी-रासरसिकं, कालिन्दीये निकुञ्ज पशुपसुतगणैर्वेष्टिततनुम् । वंशीरावेण गोपीसुललितमनसां मोहनपरं, कंसादीनामरातिं व्रजपतितनयं नौमि हृदये ॥ ४६४ ॥ इति सुरसा २१७. २१८. अथ फुल्लदाम को स्वर्णाढयौ कुसुमरसमयौ रूपरावान्वितौ चेद्, पुष्पोद्यद्रूपो कनकविरचितं नूपुरं पुष्पशोभम् । हारौ रावाढयौ विलसदमलगौ कङ्कणेनातिरम्यौ, शस्वल्लोकानां सुकथितमतुलं फुल्लदाम प्रसिद्धम् ॥ ४६५ ।। यथा दीव्यद् देवानां परमधनकरं कामपूरं जनानां, शस्वद्भक्तानां परिकलितकलाकौशलं कामिनीनाम् । दिव्यानन्दानां परम'निलयनं वेदगम्यं पुराणं, पुण्यारण्यानां गहनमहमिमं नौमि मूर्द्ध ना नितान्तम् ॥४६६।। ___ इति फुल्लदाम २१८. १. दिव्यानन्दानां परम' इति नास्ति क. प्रतो ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy