________________
५० ४८७ - ४६१]
१. वृत्तनिरूपण - प्रकरण
यथावा*..
यथा
जय ! मायामानवमूर्ते दानववंशध्वंसव्यापारी',
• बलमाद्यद्रावणहत्याकारण लङ्कालक्ष्मीसंहारी । कृतकंसध्वंसन-कर्माशंसन-गो-गोपी-गोपानन्दी, ___ बलिलक्ष्मीनाशन-लीलावामन-दैत्यश्रेणीनिष्कन्दी ॥ ४८७ ॥
इति शम्भुः २१४.
.२१५. अथ मेघविस्फूजिता यकारं संदेहि प्रथममथ मं देहि पश्चान्नकारं,
करं तस्याप्यन्ते रचय रुचिरं रेफयुग्मं ततोपि । गुरुं तस्याप्यन्ते कलय ललितं षड्रसच्छेदयुक्तं,
कुरु च्छन्दःसारं फणिपकथितं मेघविस्फूर्जिताख्यम् ।। ४८८ ॥ विलोले: कल्लोलेस्तरणिदुहितुः क्रीडनं कारयन्तं,
लसद्वशं कंसप्रभृतिकठिनान् दानवानयन्तम् । सुराणां सेन्द्राणां ददतमभयं पीतवस्त्रं दधानं,
सलीलं विन्यासैश्चरणरचित मिभागं पुनानम् ॥ ४८६ ।। यथा वा, कविराक्षसकृतदक्षिणानिलवर्णनेउदञ्चत्काबेरीलहरिषु परिष्वङ्गरङ्गे लुठन्त:
कुहूकण्ठी कण्ठीरवरवलवत्रासितप्रोषितेभाः । अमी चैत्रे मैत्रावरुणितरुणीकेलिकङ्केल्लिमल्ली
चलद्वल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥४६०॥ इत्यादि।
' इति मेघविस्फूजिता २१५.
२१६. अथ छाया सुरूपाढय कर्णं कनकललितं ताटङ्कयुग्मान्वितं,
द्विजं गन्धं स्वर्णं वलययुगलं पुष्पाढयहारद्वयम् । दधाना पादान्ते ललितविरुतप्रोद्भासितं नूपुरं,
रसैः षड्भिश्छिन्ना फणिपकथिता छाया सदा राजते ॥४६१॥
१. ख. व्यापारिन् । २. ख. हिंसाकारण। ३. संहारिन् । ४. ख. गोपानन्दिन् । ५. ख. निष्कन्दिन् । ६. ख. वधूटीः । *टिप्पणी-१. वाणीभूषणम्, द्वितीयाध्याय, पद्य ३०४