________________
१५२ ]
वृत्तमौक्तिक - द्वितीयखण्ड
.
[५० ४८२ - ४८६
wwwwwwwwww
२१३. प्रथ अवलम् द्विजवरगणमिह रचय जलनिधिपरिमितं,
तदनु कलय सगणमथ चरणविरतिगतम् । सकलकविकुलहृदयतलविलुठनकरणं,
फणिपतिभणित-धवलमिह शृणु सुखकरणम्' ॥ ४८२ ॥
यथा
जलमिह कलय सखि ! कनकयुतमिव विमलं,
गगनतलमपि विगतजलधरमतिधवलम् । गतवचनरचनमिदमपि शिखिकुलमबलं,
_ नववपुरिदमव मम कुसुमविशिखतरलम् ॥ ४८३ ॥ यथा वा, भूषणे'उपगत इह सुरभिसमय इति सुमुखि ! वदे,
निधुवनमधि सह पिब मधु जहि रुषमपदे । कमलनयनमनुसर सखि ! तव रभसपरं, ___ प्रियतमगृहगमनमुचितमनुचितमपरम् ॥ ४८४ ॥
. इति धवलम् २१३. धवला इति पिङ्गले*।
२१४. अथ शम्भुः कुरु हस्तं स्वर्णविराजत्कङ्कणपुष्पोद्यद्गन्धैर्युक्त,
श्रवणं ताटङ्कसुरूपप्राप्तरसं हारद्वन्द्वं पश्चात् । रसनायुग्मं कनकेनात्यन्तविराजद्वक्राभ्यां प्रान्ते,
नवभूवर्णैः कथितं नागाचितशम्भ्वाख्यं वृत्तं कान्ते ! ॥४८५।।
यथा
नवसन्ध्या वह्निजभीत्या पश्चिमसिन्धौ मित्रे संमग्ने,
नलिनीयं पङ्कजनेत्रं मीलयतीवात्यन्तं शोकेन । हरितो वध्वः पतगौघानां विरुतैरुच्चौर्नादं संदध्रुः२,
___ वरभृत्यांश्चाम्बरमुच्चर्भानुसमूहारक्त संबभ्रुः ।। ४८६ ॥
१. ख. सुखशरणम् । २. ख. संचक्रुः । *विप्पणी-१ वाणीभूषणम्, द्वितीयाध्याय, पद्य ३०२
. २ प्राकृतपैंगलम्, परि० २, पद्य १६२