SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ प० ४७७ - ४८१ ] यथा वा ममैव पाण्डवचरिते अर्जुनागमने द्रोणवाक्यम् - ज्ञानं यस्य ममात्मजादपि जनाः शस्त्रास्त्रशिक्षाधिकं, घथा वा, कृष्णकुतूहले - १. वृत्तनिरूपण यथा - - प्रकरण पार्थः सोऽर्जुनसंज्ञकोऽत्र सकलैः कौतूहलाद् दृश्यताम् । श्रुत्वा वाचमिति द्विजस्य कवची गोधाङ्गुलित्राणवान्, पार्थस्तूणशरासनादिरुचिरस्तत्राजगाम द्रुतम् ॥ ४७७ ।। उन्मीलन्मकरध्वजव्रजवधूहस्तावधूताञ्चल व्याजोदञ्चितबाहुमूलकनकद्रोणीक्षणादीक्षणे । उद्यत्कण्टककैतवस्फुटजनानन्दादिसंख्यामित ब्रह्माद्वैतसुखश्चिरं स भगवांश्चिक्रीड तत्कन्दुकैः ॥ ४७८ ॥ इत्यादि महाकविप्रबन्धेषु सहस्रश उदाहरणानि प्रत्युदाहरणत्वेन' द्रष्टव्यानि । इति शाहूं लविक्रीडितम् २११. २१२. श्रथ चन्द्रम् प्रतिपदमिह कुरु नगणत्रितयमथ कलय, जगणमिह नगणयुगलं तदनु च विरचय | चरणविरतिमनु रुचिरं कुसुममथ वितनु, यथा वा, भूषणे'*_ [ १५१ सकलफणिनृपतिकृत-चन्द्रमिति शृणु सुतनु ! ।। ४७६ ।। नवकुलवनजनितमन्दमरुदिह वहति, किरणमनुकलयति विधुत्रिजगति सुमहति । सपदि सखि ! मम निजहितं वचनमनुकलय, समनुसर वनगतहरि तनुमतिसफलय ।। ४८० । अनुपहतकुसुमरस तुल्यमिदमधरदल ममृतमयवचनमिदमालि विफलयसि चल । यदपि यदुरमणपदमीश मुनिहृदि लुठति, तदपि तव रतिवलितमेत्य वनतटमटति ॥ ४८१ ॥ इति चन्द्रम् २१२. चन्द्रमाला इत्यस्यैव नामान्तरं पिङ्गले * * । १. ख. ' प्रत्युदाहरणत्वेन' नास्ति । * टिप्पणी - १. वाणीभूषणम्, द्वितीयाध्याय, पद्य ३०० * टिप्पणी - २. प्राकृतपैंगलम्, परिच्छेद २, पद्य ११०
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy