________________
१५०]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० ४७३ - ४७६
'अत्रापि प्रस्तारगत्या अष्टादशाक्षरस्य लक्षद्वयं द्वाषष्टिसहस्राणि चतुष्चत्वारिंशदुत्तरं च शतं २६२१४४ भेदास्तेषु कियन्तो भेदाः प्रोक्ताः, शेषभेदास्तू ह्याः सुधीभिरिति दिक् ।'
इति अष्टादशाक्षरम् ।
अथ एकोनविंशाक्षरम् तत्र प्रथमम्
२१०. अथ नागानन्दः अश्वानां संख्याका यस्मिन् सर्वस्मिन् पादे संदृश्यन्ते कर्णाः,
पश्चाद् बाणैः संप्रोक्ता हारा युक्ता रन्धर्भूम्या चोक्ता वर्णाः । सर्वेषां नागानामीशेनैतत् प्रोक्त नागानन्दाख्यं वृत्तं,
विश्वेषां यच्छ त्वा संमज्जत्यानन्दानां वारां राशौ चित्तम् ॥ ४७३ ॥
यथा
जैनप्रोक्तानां धर्माणां सर्वेभ्यो लोकेभ्यः शिक्षा संदास्यन्,
यज्ञानां हिंसाङ्गानां तन्मूलानां वेदानां वा निन्दां कुर्वन् । सर्वस्मिस्त्रैलोक्ये भूतानां रक्षारूपां धर्मानेवाधास्यन्, कल्याणं कुर्यात् सोऽयं गोविन्दः क्रीडा) बौद्धाभिख्यां गृह्णन् ।।४७४।।
इति नागानन्दः २१०.
२११. अथ शार्दूलविक्रीडितम् कर्ण कुण्डलपुष्पगन्धललितं हारं च वक्षोरुहे,
___ हस्तं कङ्कणयुग्मसुन्दरतरं शब्दोल्लसन्नूपुरौ । रूपाढयां रसनां तथैव च दधत्तीक्ष्णांशुविच्छेदितं,
श्रीमत्पिङ्गलभाषितं विजयते शार्दूलविक्रीडितम् ।। ४७५ ।।
यथा
ते राजन्नतिचण्ड'कीतितटिनीडिण्डीरपिण्डाकृति
ब्रह्माण्डातिलसत्करण्डनिहितश्वेताण्डजप्रोज्ज्वलम् । तन्वीगण्डविपाण्डुरद्युतिपुरस्फूर्जद्विधोर्मण्डलं,
राहोर्मण्डक (ल)खण्डमेतदुदयत्याखण्डलाशामुखे ॥ ४७६ ॥
१. पंक्तित्रयं नास्ति क. प्रतो। २. ख. राजस्ते परिपूर्णकीति । *टिप्पणी-१ अष्टादशाक्षरवृत्तस्य ग्रन्थान्तरेषूपलब्धशेषभेदाः पञ्चमपरिशिष्टे द्रष्टव्याः ।