________________
५० ४६८ - ४७२ ]
१. वृत्तनिरूपण - प्रकरण
[ १४६
यथा
श्रीगोविन्दपदारविन्दमनिशं वन्देऽतिसरसं,
मायाजालजटालमाकुलमिदं मत्वाऽतिविरसम् । वृन्दारण्यनिकुञ्जसञ्चरणतः सञ्जातसुषमं, 'दम्भोल्यंकुशसध्वजं सरसिजप्रोद्भासमसमम् ।। ४६८ ॥
इति शार्दूलललितम् २०७.
२०८. अथ सुललितम् कलय नयुगलं पश्चाद्वक्र तथातिमनोहरं,
तदनु विरचयेः कणों पुष्पान्विती भगणं ततः । वितनु सुललितं पक्षीन्द्रं वा विलासिनीसुन्दरं,
मुनिविरतियुतं वेदैश्छिन्नं हयैश्च विभावितम् ॥ ४६६ ।।
यण
त्रिजगति जयिनस्ते ते भावा नवेन्दुकलादयः,
परिणतिमधुराः कामं सर्वे मनोरमतां गताः । मम तु तदखिलं शून्यारण्यप्रभं सखि ! जायते, मुररिपुरहितं तस्माद् भद्रे समाह्वय तं हरिम् ।। ४७० ।।
इति सुललितम् २०८.
२०६. अथ उपवनकुसुमम् सलिलनिधिपरिमित-नगणमिह विरचय,
तदनु च रस निगदितलघुमपि कलय । कविजनहितसकलफणिपतिकथितमिह,
हृदि कलय सुललितमुपवनकुसुममिति ॥ ४७१ ।।
यथा
असितवसनवरललितहलमुशलधर !,
- निजतनुरुचिविजितपुरमथनगिरिवर! । द्विविदकपिवरकदनकर ! नवरुचिचय !,
जय ! जय ! कुरुनरपतिनगरजनितभय ! ॥ ४७२ ॥
इति उपवनकुसुमम् २०६.
१. स. बम्भोस्पंकुशतनाम्ननुचिरं सच्छोभमसमम् ।