________________
वत्तमौक्तिक - द्वितीयखण्ड
[ ४५५ -४५६
यथा
तथा चण्डगाण्डीवबाणावलीनीचरक्षाविरक्षः', बभूवाङ्गराजो यथा न स्थितोऽसौ विपक्षः स्वपक्षः ॥ ४५५ ।।
इति क्रीडाचन्द्रः २०१.
२०२. अथ कुसुमितलता को ताटङ्कप्रथितयशसो धारयन्ती द्विजं च,
प्रोद्यद्रूपाढय कनककलितं कङ्कणं चादधाना । पुष्पाक्ती हारो तदनु दधती राववन्नूपुरौ च,
छिन्ना बाणाणैः कुसुमितलता स्याद् रसैर्वाजिभिश्च ।।४५६।। घूर्णन्नेत्रान्ते हलकलनया भिन्नपातालमूलं,
तालाङ्के गाङ्गे क्षिपति रभसान्नागसाङ्कःप्रवाहे । हाणां सङ्घः कुरुभिरभितश्चूर्णितं घूणितं च,
क्रीडार्थ बालैरिव विरचिते क्रीडितं शैलराजे ।। ४५७ ॥ यथा वा___'गोडं पिष्टान्नं दधि सकृशरं निर्जलं मद्यमम्लम् ।' इत्यादि वाग्भटे चिकित्साग्रन्थे।'
इति कुसुमितलता २०२.
२०३. प्रथ नन्दनम् रचय नकारयुक्त-जगणं विधेहि पश्चाच्च भं,
__कुरु जगणं ततोऽपि रगणं विधेहि रेफं ततः । शिवरचितां विधेहि विरतिं तथा हयैर्भासितां, .
कविजननन्दनं कुरु सखे ! सदा हृदा नन्दनम् ।। ४५८ ।। तव यशसा त्रिलोकवलये वलक्षतामागते,
बहुलनिशास्वपि प्रकटिताश्चकोरकैश्चञ्चवः । जगति पयःप्रवाहमतिभिः सुखं मरालैर्वृतं,
__ सपदि गुहां गताः हिमधिया मुनीश्वरा दुर्बलाः ।। ४५६ ।।
यथा
१. ख. विलक्षो। २. ख. यशसौ। ३. ख. हलकलजया। ४. ख. प्रवाहो। ५. ख विरचितं कौतुकात् । -टिप्पणी-१ 'ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं तिलान्न
गौड पिष्टान्न दधि सलवणं विज्जलं मद्यमम्लम् । धानावल्लूर समशनमथो गुवंसात्म्यं विदा हि,
"स्वप्नं चारात्री श्वयथुगदवान् वर्जयेन्मथुनं च ।। वाग्भट-अष्टाङ्गहृदय, अ०१७, श्लो० ४२]