________________
१४४ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० ४४६ - ४५०
२००. प्रथ चर्चरी कुण्डलं दधती सुरूपसुवर्णरावरसाहितं,
नूपुरं कुचयुग्मसङ्गतदिव्यहारविभूषिता । हस्तयुक्तसुरूपकङ्कणभासिता फणिभाषिता,
चर्चरी कविमानसे परिभाति भावुकदायिनी ॥ ४४६ ।।
यथा
रासकेलिरसोद्धतप्रियगोपवेष! जगत्पते !
दैत्यसूदन ! भोगिमद्देन ! देवदेव ! महामते ! कंसनाशन ! वारिजासनवन्द्यपाद ! रमापते !,
चिन्तयामि विभो ! हरे ! तव पादुके त्रिदशर्नुते ॥ ४४७ ।। 'यथा वा, अस्मत्तातचरणानां श्रीनन्दनन्दनाष्टकेमन्दहासविराजितं मुनिवृन्दवंद्यपदाम्बुजं,
सुन्दराधरमन्दराचलधारि चारु लसद्भुजम् । गोपिकाकुचयुग्मकुङ्क मपङ्करूषितवक्षसं,
नन्दनन्दनमाश्रये मम किं करिष्यति भास्करिः ॥ ४४८ ।। यथा वा, तेषामेव श्रीसुन्दरीध्यानाष्टकेकल्पपादपनाटिकावृतदिव्यसौधमहार्णवे,
रत्नसङ्घकृतान्तरीपसुनीपराजि विराजते, चिन्तितार्थविधानदक्षसुरत्नमन्दिरमध्यगां,
मुक्तिपादपवल्लरीमिह सुन्दरीमहमाश्रये ॥ ४४६ ।। यथा वा, भूषणे*
कोकिलाकलकूजितं न शृणोषि सम्प्रति सादरं,
मन्यसे तिमिरापहारि सुधाकरं न सुधाकरम् । दूरमुज्झसि भूषणं विकलासि चन्दनमारुते,
कस्य पुण्यफलेन सुन्दरि ! मन्दिरं न सुखायते ॥ ४५० ।।
१. २. नन्दनन्दनाष्टक-सुन्दरीध्यानाष्टकञ्चेति पद्यद्वयं नास्ति क. प्रतो ।
३. वाणीभूषणम्, द्वितीयाध्याय, पद्य २६६