________________
१४० ]
वृत्तमौक्तिक-द्वितीयखण्ड
[५० ४२८ - ४३१
यथा
अनुलवमूर्च्छया क्षपितदेहलता गलता,
नयनजलेन दूषितमुखी' तव भूमिसुता। रघुवरमुद्रिकां हृदि निधाय सुखातिशय
मुकुलितलोचना क्षणमभूदमृतस्नपिता ॥ ४२८ ।। यथा वा, श्रीभागवते दशमस्कन्धे वेदस्तुतौ -
जय ! जय ! जयजामजितदोषगृहीत 'गुणाम् । इत्यादि ।
इति नईटकम् १९२.
अथ कोकिलकम् मुनिरसवेदैविरतिर्यदि कोकिलकं तदेदमेव भवेत् ।
तदुदाहरणं लक्षणवाक्ये ज्ञेयं सुधीभिरिति ॥ ४२६ ॥ थापा, छन्दोमञ्जर्याम् *- . लसदरुणेक्षणं मधुरभाषणमोदकरं,
___ मधुसमयागमे सरसकेलिभिरुल्लसितम् । अलिललिता तिं रविसुतावनकोकिलकं,
ननु कलयामि तं सखि ! सदा हृदि नन्दसुतम् ॥ ४३० ॥ गणविरचना सैव, विरतिकृत एवात्र भेद इति नामान्तरम् ।
इति कोकिलकम् ।
१९३. प्रथ हारिणी कर्णं कृत्वा कनकललितं ताटङ्कसंराजितं,
संबिभ्राणा द्विजमथ रुतस्वर्णाचितौ नूपुरौ । पुष्पं हारौ सरसवलयं संधारयन्ती मुदा,
वेदैः षड्भिविरचितयतिः शैलोदिता हारिणी॥ ४३१ ।।
१. ख. दूषितमुखा। २. ख. गृभीतगुणाम् । * टिप्पणी-१. जय जय जयजामजितदोषगृभीतगुणां
- त्वमसि यदात्मना समवरुद्धसमस्तभागः । अगजगदोकसामखिलशक्त्यवबोधक ते क्वचिदजयात्मना च चरतोऽनुचरेनिगमः ।।
[भागवत-दशमस्कन्ध, अ० ८७, श्लो० १४] . २. छन्दोमंजरी, द्वि० स्त० का० १६७ ।