________________
प० ४३२-४३६ ]
यथा
यथा
यथा
१. वृत्तनिरूपण - प्रकरण
बद्ध्वा सिन्धुं नगरमिह मे रामः समायात्ययं,
रोद्धु ं श्रुत्वा दशमुख इति प्रीतोऽभवत्तत्क्षणम् । बाह्वोः कण्डूं. गमयितुमना पश्चान्नरं राघवं, श्रुत्वाऽवज्ञाकलुषितमना लङ्केश्वरोऽभूत्तदा ।। ४३२ ॥ इति हारिणी १९३.
१६४. श्रथ भाराक्रान्ता
श्रादौ कुर्यान् मगण-भगणी ततो नगणो मतः, फं दद्यात्तदनुरुचिरं विधेहि करं ततः । मेरुं हारं विरचय ततः फणीश्वरभाषिता,
भाराक्रान्ता जलनिधिरस विरामयुता मता ।। ४३३ ॥
सिन्धोर्बन्धं रघुवरकृतं निशम्य दशाननो,
दध्यौ मूद्धर्ना सपदि बहुधा व्यधाच्च विधूननम् । शङ्के च्योतन्मणिकपटतो रघूत्तमरागिणी,
सत्यामाख्यां जगति तनुते तदा कमलालया ॥ ४३४ ॥ इति भाराक्रान्ता १६४.
१९५. अथ मतङ्गवाहिनी
हारमेरुजक्रमेण जायते यदा विराजिता,
शैलभूमिसंख्यकाक्षरैस्तथा भवेद् विकासिता । पण्डितावली विनोदका रिपिङ्गलेन भाषिता,
जायते तङ्गवाहिनी गुणावलीविभूषिता ॥ ४३५ ।।
[ १४१
नौम्यहं विदेहाति शरासनस्य 'भञ्जकं,
बाविहारिणं विभीषणस्य राज्यसञ्जकम् । लक्ष्यवेधने तथा सदा शरासनस्य' धारिणं,
रावणदहं कठोरभानुवंशदीप्तिकारणम् ।। ४३६ ॥ इति मतङ्गवाहिनी १६५.
१ ख योद्धम् । २ ख मूर्द्धं नः । ३, चिह्न, नगर्तोऽशः क. प्रतो नास्ति ।