SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ५० ४२४.४२७ ] १. वृत्तनिरूपण - प्रकरण [१३६ यथा यथा वा, कृष्णकुतूहले हृत्वा ध्वान्तस्थितमपि वसुप्रक्षिपत् पक्ष्म[राजि-] स्पन्दं विन्दन् व्रजति कुहचित् कैश्चनालक्ष्यमाणः । छिद्राणि द्राक् कलयति शयाशक्यशिक्यस्थभाण्डे', निद्रां भक्त्वा द्रवति जवतस्ताडयत् सुप्तबालात् ।। ४२४ ।। (?) इति मन्दाक्रान्ता १६०. १६१. अथ वंशपत्रपतितम् कारय भं ततोऽपि रगणं रचय न-भगणौ, धेहि नकारमेरुवलयान् तदनु सुललितान् । व्योमसुधांशुभिः कुरु हयैः तदनु च विरतिः२, चेतसि वंशपत्रपतितं रचय फणिकृतम् ।। ४२५ ॥ जानकि ! नैव चेतसि कृथा रजनिचरमति, राघवदूततामुपगतं कलय हृदि निजे । जल्पति मारुताविति तदा जनकतनयया दत्त न मुद्रिकाऽपि कलिता जलपिहितदृशा ।। ४२६ ।। 'सम्प्रति लब्धजन्म शनकः कथमपि लघुनि ।' इति किरातार्जुनीये*। इति वंशपत्रपतितम् १९१. स्त्रीलिङ्गमिति केचित् । वंशवदनम् इति शाम्भवे तस्यैव नामान्तरमुक्तम् । १६२. अथ नईटकम् कुरु नगणं ततः कलय जं वद भं च ततो, __ जगणयुगं ततो रचय कारय मेरुगुरू । फणिपतिभाषितं मुनिविधूदितवर्णधरं, कविजनमोहकं हृदि विधारय नईटकम् ॥ ४२७ ॥ यथा वा १. ख. भारो। २. ख. विरतिं । ३. ख. हन्त । *टिप्पणी-१ सम्प्रति लब्धजन्म शनकैः कथमपि लघुनि, क्षीणपयस्युपेयुषि भिदां जलधरपटले। खण्डितविग्रहं बलभिदो धनुरिह विविधाः, पूरयितु भवन्ति विभवशिखरमणिरुचः ॥४३॥ [किरातार्जुनीयम् स० ५, प० ४३]
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy