________________
१३८ ]
वत्तमौक्तिक - द्वितीयखण्ड
[५० ४२० - ४२३
यथा घा, कृष्णकुतूहलेहसितवदने दृष्ट्वा चेष्टां सुतस्य सविस्मये,
ययतुरथ ते गोपापत्यौ तदद्भुतमन्यतः । तदनु कतिचिद् बाला मात्रे बलेन सहोचिरे,
मृदमनुपदं कृष्णः प्राशीदिति प्रतिभाजुषः ॥ ४२० ॥ यथा वा, लक्ष्यलक्षणयुक्त तत्रैवग्रहिलहृदयोदञ्चत्तत्तद्गतिप्रतिभाजुषां,
त्रिभुवनपतिप्रत्यासत्तिस्फुरत्पुलकस्पृशाम् । शिथिलकबरीबन्धस्रस्तस्रजां हरिणीदृशां,
___ न समरसतः कायप्रायो लघुर्गुरुरप्यभूत् ॥ ४२१ ।। श्लेषार्थ ऊहनीयः । यथा वा- 'अथ स विषयव्यावृत्तात्मा यथाविधिसूनवे*।' इत्यादि रघुवंशे महाकाव्यादिसत्कविप्रबन्धेषु च भूमनिदर्शनानि ।।
इति हरिणी १८६.
१६०. प्रथ मन्दाक्रान्ता
कौं पुष्पद्वितयसहितौ गन्धवद्धस्तयुक्ता,
__ हारं रूपं तदनु वलयं स्वर्णसञ्जातशोभम् । संबिभ्राणा विरुतललिती नूपुरौ वा पदान्ते ।
मन्दाक्रान्ता जयति निगमैश्छेदयुक्ता रसैश्च ॥ ४२२ ।।
यथा
सिन्धोष्पारे दशमुखपुरी वानरास्तत्र दूताः,
पम्पाशम्पाशतयुतचलनीलमेघावलीकाः । वासः केकाकवलिततटे मादृशामृष्यमूके,
दैवो वामः पुनरयमतो भावि किं किं न जाने ॥ ४२३ ।।
*टिप्पणी- १. अथ स विषयव्यावृत्तात्मा यथाविधिसूनवे,
नृपतिककुदं दत्वा यूने सितातपवारणम् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये, गलितवयसामिक्ष्वाकूरणामिदं हि कुलव्रतम् ।।
[रघुवंश, स० ३, प० ७०]