SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १३४ ] यथा यथा - वृत्तमक्तिक द्वितीयखण्ड - 93 १८३. प्रथ ललना प्रथमं कलय करतलमात्मना ह्यपथां', ललनां नगणयुगलवतीं जभाकलिताम् । फणिराज भणितगुण (रु) विराजितामतुलां, कलयाशु सपदि सुजनमानसे वलिताम् ।। ४०१ ॥ विदधातु सकलफलमनारतं तनुते, सनकादिनिखिलमुनिनतो वने वनिते ! 1 व्रजराजतनय इह सदा हृदा कलितः, स चराचरजनतनुमहोदधौ फलितः ॥ ४०२ ॥ इति ललना १८३. १८४. अथ गिरिवरधृतिः [ प० ४०१-४०४ www.m शरपरिमितमिह नगणमनु कुरुत, विधुविरचितमथ लघुमपि रचयत । फणिपतिरिति किल मधुरमनुवदति, कलयत निजहृदि गिरिवरधृतिरिति ।। ४०३ ॥ विशिखनिचयहत निखिल रजनिचर !, निजभुजयुगबलरण विनिहतखर ! | विबुधनिहतभय ! दशमुखकुलहर !, दशरथनृपसुत ! जय ! जय ! रघुवर ! ।। ४०४ ।। इति गिरिवरधृतिः १८४. अचलधृतिः १ * इत्यन्यत्र । 3 'अत्रापि प्रस्तारगत्या षोडशाक्षरस्य पञ्चषष्टिसहस्राणि पञ्चशतानि षट्त्रिंशदुत्तराणि ६५५३६ भेदास्तेषु कियन्तो लक्षिताः, शेषभेदाः प्रस्तार्य स्वेच्छया नामानि चारयज्या ( विचार्य) लक्षणीया इत्युपदिश्यते । इति षोडशाक्षरम् । १. ख. ह्यथ ताम् । २. ख बलितम् । ३ पंक्तित्रयं नास्ति क. प्रतौ । * टिप्पणी - १ छन्दोमञ्जरी, द्वितीयस्तबक, का० १५५ - २ षोडशाक्षरवृत्तस्योपलब्धशेषभेदाः पञ्चमपरिशिष्टे पर्यालोच्याः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy