________________
प० ३६५ - ४०० ]
१. वृत्तनिरूपण -प्रकरण
m
यथा
यथा
१८०. अथ शैलशिखा धेहि भकारमत्र खगराजमवेहि ततः,
__कारय नं ततोऽपि भगणो भगणेन युतः । नूपुरमेकसंख्यमवधेहि पदान्तगतं,
शैलशिखाभिधं त्वमवधारय नागकृतम् ।। ३६५ ।। गोपवधूमयूरवनितानवमेघनिभः,
दानवसङ्घदारण विधावतिसप्रतिभः । तुम्बरुनारदादिकमनःसरसीषु गजः,
वाञ्छितमातनोतु तव गोपपतेस्तनुजः ।। ३६६ ।।
इति शलशिखा १८०.
१८१. अथ ललितम् कारय भं ततोऽपि रगणं विधेहि नगणं,
पक्षिपति विधारय पुनस्तथैव नगणम् । कङ्कणमन्तगं कुरु समस्तपादविरतो,
घेहि मनः सदैव ललिते फणीश्वरकृतौ ॥ ३६७ ।। अत्रापि सप्तभिर्नवभिः प्रायो विरतिर्भवतीति उपदिश्यते । गोपवधूमुखाम्बुजविकासने दिनपतिः,
दानवसङ्घमन्तकारिदारणे मृगपतिः । लोकभयापहः सकलवन्द्यपादयुगलः,
शं कुरुतां ममापि च विलोलनेत्रकमलः ॥ ३६८ ।।
इति ललितम् १८१.
१८२. अथ सुकेसरम् नगण-सेगणौ विधेहि जगणं ततः परं,
सगण-जगणौ च नूपुरमथोऽनन्तरम् । फणिनृपतिभाषितं रसविधूदिताक्षरं,
कलय हृदये सदा सुखकरं सुकेसरम् ॥ ३६६ ॥ नरपतिसमूहकण्ठतटघट्टनोद्भव
रुडुगणनिभः स्फुलिङ्गनिकरैर्भयानकः । बिलसति नृपेन्द्रशत्रुगणधूमकेतुवत्.
तव रणविधौ स्थितः करतले कृपाणकः ।। ४०० ।।
इति सुकेसरम् १८२.
बथा