SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ १३० ] यथा यथा यथावा, भूषणे वृत्तमौक्तिक - द्वितीयखण्ड १७३. प्रथ चञ्चला 'हारमेरु क्रमेण यद्विराजते सुकेशि !, षोडशाक्षरेण यद् विकासितं भवेत् सुवेषि ! | पिङ्गलेन भाषितं समस्त नागनायकेन, तद्धि चञ्चलाभिधं कवीन्द्रमोददायकेन ॥ ३८० ॥ आलि ! रासजातलास्यलीलया सुशोभितेन, गैरिकादिधातुवन्यभूषणानुभूषितेन । गोपिका विमोहराव वंशिका विनोदितेन, 1 मन्मनो हृतं व्रजाटवीषु केलिमोदितेन ।। ३८१ ॥ [१०३८०-३६४ आलि ! याहि मञ्जुकुञ्जगुञ्जितालिलालितेन, भास्करात्मजाविराजिराजि' तीरकाननेन । शोभिते स्थले स्थितेन सङ्गता यदूत्तमेन, माधवेन भाविनी तडिल्लतेव नीरदेन ॥ ३८२ ।। इति चञ्चला १७३. एतस्यैवान्यत्र चित्रसङ्गम्** इति नामान्तरम् । १७४. श्रथ मदनललिता कर्णं कृत्वा कनकरुचिरं ताटङ्कसहितं, संविभ्राणाद्विजमथ पुनः स्वर्णाढयवलया । हारी धृत्वा कुसुमकलितौ हस्तेन रुचिरा, वेदैः षड्भिर्मदन ललिता छिन्ना रसयतिः ।। ३८३ ॥ कालिन्दी तटभुवि सदा केलीसु ललितं, राधाचित्तप्रणयसदनं गोपेषु (पीसु ) वलितम् । संबिभ्राणं विरुतरुचिरं वंशं करतले, ध्यायेन्नित्यं व्रजपतिसुतं चित्तेऽतिविमले ॥ ३८४ ॥ sa मदनला १७४. १. ख. हारमेरुजक्रमेण सद्विराजते पुरेण, यद्विकासितं भवेत् सुकेशि षोडशाक्षरेण । २. ख. रम्यतीरकाननेन । ३. ख. तटपरिसरे । ★ टिप्पणी - १. वाणीभूषणम्, द्वितीयाध्याय, पद्य २७८ २. छन्दोमञ्जरी, द्वितीयस्तबक, कारिका १४८
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy