SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ५० ३८५ - ३८६] १. वृत्तनिरूपण - प्रकरण [ १३१ १७५. अथ वाणिनी कुरु नगणं विधेहि जगणं ततो भकारं, जगणमथोऽपि रेफयुतमन्तजातहारम् । षडधिकपंक्तिवर्णकलितं सुवृत्तसारं, __ कलयत वाणिनीति कविभिः कृतप्रचारम् ॥ ३८५ ।। यथा अनवरतं खरांशुतनयाचलज्जलौघैः, ___ तटभुवि 'संलुप्ते 'ऽखिलनृणां विनाशिताघः । द्विजजनसाधिताऽनुपमसप्ततन्तुभोक्ता, पशुपजनैर्हरिः सह वनोदनं जघास' ॥ ३८६ ॥ इति वाणिनी १७५. १७६. अथ प्रवरललितम् यकारं पूर्वस्मिन् रचय मगणं धारयाशु, नकारं हस्तं च प्रथय रगणं धेहि वासु । गुरुं पादस्यान्ते विरचय फणीन्द्रेण गीतं, ___ सुहास्ये विश्रामं प्रवरललितं नाम वृत्तम् ।। ३८७ ।। यथा तडिल्लोलैर्मेदिशि दिशि महाध्वानवद्भि गजानीकाकारैरनवरतमापः सृजद्भिः । व्रजं भीतं वीक्ष्य द्रुतमचलराजं कराग्रे, दधद्रक्षां कुर्यात् भवजलनिधावत्युदग्रे ।। ३८८।। इति प्रवरललितम् १७६. १७७. अथ गरुडरुतम् द्विजवरमत्र धेहि रगणं नकारं ततः, कुरु रगणं ततोऽपि रगणः पदान्ते मतः । षडधिकपंक्तिवर्णकलितं समस्ते पदे, गरुडरुतं समस्तफणिराजचित्तास्पदे ।। ३८६ ।। १. ख. विटपितले लुते । २. क. वतोदनं भुक्ति । ३. ख. छन्नं ।। *टिप्पणी-१ अत्र पादे नगणमनु जगणोपस्थितियुक्ता किन्त्वत्र ‘संलुप्ते' इति पाठे यगणो जायते तदयुक्तम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy