________________
यथा
पा० ३५४ . ३५६ ] १. वृत्तनिरूपण -प्रकरण
[१२५ mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmms तापकर-कामशर-शल्यवरकीलितं', ___ मामिह हि पश्य जहि कोपमतिशीलितम् ॥ ३५४ ।।
इति निशिपालकम. १६१.
१६२. प्रथ विपिनतिलकम् रचय नगणं तदनु धेहि हस्तं मुदा,
___ नगणसहितं रगणयुग्ममन्ते सदा । रसनवयति फणिपभाषितं सुन्दरं ।
विपिनतिलकं कलय बाणविध्वक्षरम् ॥ ३५५ ।। नरवरपतेरिव नराः शशाङ्कांशवः,
तिमिरनिकरः सपदि चोरवद् गच्छति । अयमपि रविः सखि ! हृताधिकारिप्रभः,
कथयति विधोः खगकुलं जयं बंदिवत् ।। ३५६ ।। यथा वाजयति करुणानिधिरशेषसत्तारकः,
कलितललितादिवनितामनोहारकः । सकलधरणीपकुलमण्डलीपालकः,
परमपदवीकरणदेवकीबालकः ॥ ३५७ ।। इति विपिनतिलकम् १६२.
१६३. अथ चन्द्रलेखा कर्णे ताटङ्कयुग्मं पुष्पाढयहारौ दधाना,
बिभ्राणा नूपुरस्य द्वन्द्वं सुररावं सुचित्तम् । पादान्ते धारयन्ती वीणां सुवर्णावियुक्तां,
नागोक्ता चन्द्रलेखा सप्ताष्टछेदैरमुक्ता ।। ३५८ ॥ नित्यं वन्दे महेशं गौरीशरीरार्द्धयुक्त,
दग्धाऽनङ्गं पुरारि वेतालसङ्घरमुक्तम् । बिभ्राणं चन्द्रलेखां नृत्येष कृत्ति धुनानं,
गङ्गासञ्जातसङ्गं दृष्टया त्रिलोकी पुनानम् ॥ ३५६ ।।
इति चन्द्रलेखा १६४. चण्डलेखा इत्यन्यत्र ।
यथा
१. तल्पभरशीलितम्, 'वाणीभूषणे'। २. शेषमतिसञ्चितम् 'वाणीभूषणे' ।