________________
१२६ ]
वृत्तमौक्तिक-द्वितीयखण्ड
[प०३६०-३६४
यथा
१६४. अथ चित्रा कर्ण द्वन्द्वं ताटङ्काभ्यां योजितं कारयित्वा,
हारौ बिभ्राणा स्वर्णाढय पुष्पयुक्तं तथैव । तिथ्युक्तैर्वर्णैः संयुक्ता कङ्कणी धारयन्ती,
शोभां धत्ते चित्रां चित्रा शब्दवन्नूपुराभ्याम् ॥ ३६० ।। कालिन्दीकूले केलीलोलं वधू'सङ्घयुक्त,
___ वन्दे गोपालं रक्षायां नन्दगोपस्य सक्तम् । हस्तद्वन्द्वे धृत्वा श्वासैवंशिकां पूरयन्तं,
दैतेयान् हत्वा देवानां संकटं दूरयन्तम् ॥ ३६१ ।।
इति चित्रा १६४. चित्रमिदमन्यत्र ।
१६५. अथ केसरम् कुरु नगणं ततोऽपि च विधेहि भूपति,
___ भगणपयोधरौ तदनु पक्षिणां पतिम् । फणिपतिभाषितं तिथिविभाविताक्षरं,
सुकविमनोहरं हृदि निधेहि केसरम् ।। ३६२ ।।
यथा
चिरमिह मानसे कलय नन्ददारकं,
वरवनमालिनं दितिसुतापहारकम् । व्रजवनितारसोदधिनिमग्नमानसं,
रवितनयातटे कलितपीतवाससम् ।। ३६३ ।।
इति केसरम् १६५.
१६६. प्रथ एला प्रथमं करं रचय जगणमनु कान्ते !
नगणद्वयं तदनु कुरु यगणमन्ते । फणिभाषिता शरपरिकलितविरामा,
कृतसंस्तुतिः सकलवरकविभिरेला ।। ३६४ ।।
१. ख. बन्धू । *टिप्पणी-१ छन्दोमञ्जरी, द्वितीयस्तबक, कारिका १३९