________________
१२४ ।
क्तिक-दितीयखण्ड
[३४६- ३३
अपि च
मणिगुणनिकरोदाहृतिरिह शरभोदाहृतो ज्ञेया । स्रगुदाहरणं ज्ञेयम् लक्षणवाक्ये तु शरभस्य ॥ ३४६ ।।
यथावा
नरकरिपुरवतु निखिलसुरगति
रमितमहिमभरसहजनिवसतिः' । अनवधिमणिगुणनिकरपरिचितः ,
सरिदधिपतिरिव धृततनुविभवः ॥ ३५० ॥ अयि ! सहचरि ! रुचिरतरगुणमयी ,
प्रदिमवसतिरनपगतपरिमला। स्रगिव निवसति लसदनुपमरसा ,
सुमुखि ! मुदितदनुजदलनहृदये ।। ३५१ ॥ इति छन्दोमञ्जर्यामुदाहरणद्वयं 'यतिभेदेनोक्तम् । प्रकृतं तु शरभमेव इति न कश्चिद् विशेषः ।
१६१. प्रथ निशिपालकम धेहि भगणं तदनु भूपतिमथो करं,
देहि नगणं च रगणं कुरु ततः परम् । नागनृपपिङ्गलसुभाषितमुदीरितं ,
वृत्तममलं हृदि निधेहि निशिपालकम् ।। ३५२ ॥
यथा
गोपतरुणीजनमनोहरणपण्डितं,
___ हस्तयुगधारितसुवेणुपरिमण्डितम् ।। चन्द्रकविराजितविलोलमुकुटं हृदा,
नौमि हरिमर्कतनयातटगतं सदा ।। ३५३ ।। यथा वा, भूषणे - चन्द्रमुखि ! जीवमुखि (षि) ! वाति मलयानिले,
याति मम चित्तमिव पाति मदनानिले ।
१ क. सनिखिल सुगति । २. गाढ 'वाणीभूषणे'। *टिप्पणी-१ छन्दोमञ्जरी, द्वितीयस्तवक, कारिका १३३, १३२
२ वाणीभूषणम् द्वितीयाध्याय, पद्य २५६ .