________________
५. ३४३ - ३४८]
१. वृत्तनिरूपण - प्रकरण
[ १२३
यथा
यथा वा
१५६. अथ मनोहंसः प्रथमं विधेहि करं जकारविराजितं,
जगणं ततो भगणेन कारय भूषितम् । विनिधेहि पक्षिपतिं ततस्तिथिजाक्षरं,
कुरु हंसमेणविलोचने मनसः परम् ।। ३४३ ।। तनुजाग्निना सखि ! मानसं मम दह्यते,
. तनुसन्धिरुष्णगदारुवत् परिभिद्यते । अधरं च शुष्यति वारिमुक्तसुशालिवत्,
कुरु मद्गृहं कृपया सदा वनमालिमत् ।। ३४४ ।। नवम वञ्जुलकुञ्जकूजितकोकिले.
मधुमत्तचञ्चलचञ्चरीककुलाकुले । समयेतिधीरसमीरकम्पितमानसे,
किमु चण्डि मानमनोरथे न विखिद्यसे ।। ३४५ ॥
इति मनोहंसः १५६.
१६० अथ शरभम् जलनिधिकृतमिह विरचय नगणं ,
चरणविरतिमनुविरचय सगणम् । वरफणिपतिविरचितमतिरुचिरं ,
शरभमखिलहृदि विलसति सुचिरम् ।। ३४६ ॥ . नभसि समुदयति सखि ! हिमकिरणं,
वहति सुलघुलघुमलयजपवनम् ।। त्यजति तिमिरमिदमपि (भि) जननयनं ,
द्रुतमनुविरचय मधुरिपुशयनम् ॥ ३४७ ।।
इति शरभम् १६०. इदमेवान्यत्र शशिकला*' इति नामान्तरेण उक्तम् ।
अथ मणिगुणनिकरसृजौ छन्दसी, किञ्चइदमेव हि यदि वसुयति ८ मणिगुणनिकराख्यमीर्यते हि तदा। यदि तु रसे ६ विश्रामः स्रगिति समाख्यां तदा लभते ।। ३४८ ।।
यथा
*टिप्पणी-१ छन्दोमजरी, द्वितीयस्तबक, कारिका १३१