________________
१२२ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० ३३८ - ३४२
यथा वा, भूषणे'*रासलास्यगोपकामिनीजनेन खेलता,
पुष्पपुञ्जमञ्जुकुञ्जमध्यगेन दोलता। तालनृत्यशालिगोपबालिकाविलासिना,
माधवेन जायते सुखाय मन्दहासिना ।। ३३६ ॥
इति चामरम् १५७. एतस्यैव अन्यत्र तूरणकं *२ इति नामान्तरम् ।
१५८. प्रथ भ्रमरावलिका चरणे विनिधेहि सकारमिषूपमितं,
कुरु वर्णमपीषुनिशाकरसंप्रमितम् । फणिनायकपिङ्गलचित्तमुदः कलिका,
सखि ! भाति कवीन्द्रमुखे भ्रमरावलिका ।। ३४० ॥
यथा
कलकोकिलकूजितपूजितनू (त्न)वनं,
वनजाक्षिनवीनसरोजवनीपवनम् । हिमदीधितिकान्तिपयःपरिधौतमिदं,
जगदाशु विलोक्य' परित्यज मानमिदम् ॥ ३४१॥ यथा वा, भूषणे -
सखि ! सम्प्रति कं प्रति मौनमिदं विहितं,
___मदनेन धनुः सशरं स्वकरे निहितम् । नतिशालिनि का वनमालिनि मानकथा,
रतिनायकसायकदुःखमुपैषि वृथा ।। ३४२ ।।
इति भ्रमरावलिका १५८. भ्रमरावलीति पिङ्गले
१. ख. जगदाशुचि लोक्य । २. 'मुपैति' वाणीभूषणे । *टिप्पणी-१ वाणीभूषणम्, द्वितीयाध्याय, प० २६२
२ छन्दोमञ्जरी, द्वितीयस्तबक, कारिका १३७ ३ वाणीभूषणम्, द्वितीयाध्याय, पद्य २६६ ४ प्राकृतपैङ्गलम्, द्वितीयपरिच्छेद, प० १५४