________________
५० ३३३ - ३३८]
१. वृत्तनिरूपण -प्रकरण
[ १२१
यथा
अयममृतमरीचिदिग्वधूकर्णपूरं
सपदि परिविधातुं कोऽपि कामीव कान्तः । सरस इव नभस्तोऽत्यन्तविस्तारयुक्ता
दुड़गणकुमुदानि प्रोच्चकैरुच्चिनोति ॥ ३३३ ॥ यथा वा, पाण्डवचरितेभवनमिव ततस्ते बाणजालै रकुर्वन्,
गजरथहयपृष्ठे बाहुयुद्धे च दक्षाः । विधृतनिशितखड्गाश्चर्मणा भासमाना,
विदधुरथ समाजे मण्डलात् सव्यवामात् ।। ३३४ ।। यथा वा, अस्मपितामहमहाकविपण्डितश्रीरायभट्टकृते शृङ्गारकल्लोले खण्डकाव्येमन इव रमणीनां रागिणी वारुणीयं,
हृदयमिव युवानस्तस्कराः स्वं हरन्ति । भवनमिव मदीयं नाथ शून्यो हि देश
स्तव न गमनमीहे पान्थ कामाभिरामा ।। ३३५ ।। यथा वा, कृष्ण निरवधिदिनमाना यं विना गोपवध्व
स्तमभिकमभिसायं वीक्षमाणा ननन्दुः । स्मितमधुरमपाङ्गालोकनं प्रीतिवल्याः,
कुसुममिव तदीयं वीक्ष्य कृष्णोप्यतुष्यत् ॥ ३३६ ॥
इति मालिनी १५६.
१५७. अथ चामरम् पक्षिराजभूपतिक्रमेण यद् विराजते,
बाणभूमिसंख्ययाक्षरं च यत्र भासते । नागराजभाषितं तदेव चारुचामरं,
मानसे विधेहि पाठतोऽपि मोहितामरम् ॥ ३३८ ।। नौमि गोपकामिनीमनोविनोदकारणं,
लीलयावधूतकंसराजमत्तवारणम् । कालियाहिमस्तकोल्लसन्मणिप्रकाशितं,
नन्दनन्दनं सदैव योगिचित्तभासितम् ॥ ३३८ ।।
यथा