________________
प० ३२४ - ३२६ ]
यथा
यथा
यथा
१. वृत्तनिरूपण - प्रकरण
फणिपतिभाषितारविहयैविरति
र्वरक विमानसेऽतिविमला जयति ।। ३२४ ॥
व्रजजननागरीदधिहृतावतुला,
तरणिसुतात हरितनुर्विमला' ।
वरवनितादृशां सुसुकृतैककला,
मम विमले सदा भवतु हृद्यचला ।। ३२५ ॥
इति विमला १५२.
१५३. अथ मल्लिका
कुरु गन्धयुग्मसहितं मृगाधिपति,
रचयाशु सन्ततमथो नरावपि सम् । इह मल्लिकां कलयतां विलासवतीं,
नवपञ्चकैर्यतियुतां मुदो' जननीम् ।। ३२६ ।।
सखि ! नन्दसूनुरिह मे मनोहरणः,
जनताप्रसादसुमुखस्तमोहरणः ।
भविता सहायकरणो जनानुगतः,
करवै कमत्र शरणं वने सुखत: ।। ३२७ ।। इति मल्लिका १५३.
१५४. प्रथ मणिगणम्
जलधिमित नगणमिह कलयत,
तदनु च लघुयुगमपि रचयत ।
सकलफणिनृपतिविरचितमिति,
निजहृदि कलयत मणिगणमिति ।। ३२८ ।।
भुजयुगल विलसितफणिवलय,
कृतसकलदितिसुतकुलविलय ।
प्रलयसमयभयजनक सलय 3,
वृषगमनमपि सुखमनुकलय ॥ ३२६ ॥
इति मणिगणम् १५४.
[ ११६
१. पद्यस्य पूर्वाद्ध भागं नास्ति ख. प्रतौ । २. ख. मुदा । ३. ख. जनसकलय ।