________________
११८ ]
वृत्तमोक्तिक-द्वितीयखण्ड
[१० ३१९ - ३२३
देवपतिगर्वहरखण्डनसुदक्षं,
भूमिवलये निहतदैत्यगणलक्षम् ॥ ३१६ ॥
इति इन्दुवदनम् १४६. स्त्रोलिङ्गमन्यत्र ।
१५०. प्रथ शरभी कणं स्वर्णोज्ज्वलललितताटङ्कयुक्त,
संबिभ्राणा द्विजमथ रुतं नूपुराढ्यम् । हारं पुष्पं वलययुगलं धारयन्ती,
वेदैश्छिन्ना जयति शरभी पिङ्गलोक्ता ।। ३२०॥
यथा
वन्दे कृष्णं नवजलधरश्यामलाङ्ग,
वृन्दारण्ये व्रजयुवतिभिर्जातसङ्गम् । कालिन्दीये सरसपुलिने क्रीडमानं',
कालीयाहेः प्रथितयशसो धूतमानम् ॥ ३२१ ॥
इति शरभी १५०.
१५१. अथ अहिधृतिः रचय नयुगलं कुरु ततो भगणं,
___लघुगुरुसहितं कुरु तथा जगणम् । मुनिविरतियुता फणिनृपस्य कृतिः,
जगति विजयते सुविमलाऽहिधृतिः ।। ३२२ ॥' सकलतनुभृतां जलमपेयतरं,
विगतवि[ष]भयं रचयितु कृपया। पतति तरुवराच्छिरसि नन्दसुते,
भुवनभरसहा विजयतेऽहिधृतिः ॥ ३२३॥*
इति अहिति: १५१.
१५२. अथ विमला रचय न-भूपती कुरु तथा भगणं,
लघुवलयाचितं च विरती जगणम् ।
यथा
ख. सवमानं। २. पूर्ण प नास्ति क. प्रतो । *टिप्पणी-१ वृत्तरत्नाकरः प्र. ३, का० ८२