________________
प० ३१४-३१८ ]
यथा
यथा
१. वृत्तनिरूपण प्रकरण
१४७. अथ नान्दीमुखी
द्विजपरिकलिता हस्तयुक् कङ्कणाढ्या, विरुतविलसित नूपुरो धारयन्ती ।
रसकनकयुतं हारमुच्चैर्दधाना,
यथा
स्वरविरतियुता भाति नान्दीमुखीयम् ।। ३१४ ॥
नखगलदसृजां पानतो भीषणास्यः
सुरनृपतिमुखैर्देवसंधै रुपास्यः ।
भयजनकरवैर्नादयद्दिङ मुखानि,
प्रकटयतु स वः सिंहवक्त्रः सुखानि ।। ३१५ ।।
इति नान्दीमुखी १४७,
१४८. प्रथ वैदर्भी
कर्णे कृत्वा कनकसुललितं ताटङ्कं,
बिभ्राणाद्विजमथ वलयं हस्ताग्रे ।
दिव्यं हारद्वितयमथ दधाना युक्त
वेदछिन्ना जगति विजयते वैदर्भी ।। ३१६ ।।
वन्दे नित्यं नरमृगपतिदेहं व्यग्रं,
दैत्येशोरःस्थलदलनविधावत्युग्रम् ।
प्रह्लादस्याभिलषितवरदं सृक्काग्रे,
संलिह्यन्तं रुधिरविलुलितं जिह्वाग्रम् ।। ३१७ । इति वैदर्भी १४८.
१४६. अथ इन्दुवदनम्
हि भगणं तदनु धारय जकारं,
हस्तमथ कारय ततोऽपि च नकारम् ।
हारयुगलं तदनु देहि चरणान्ते,
[ ११७
नागकृतमिन्दुवदनं भवति कान्ते ! ।। ३१८ ।
नौमि वनिता वितत सरसयुक्त, गोकुलवधूजनमनोहरणसक्तम् ।