________________
५०३०३ - ३०८
१. वृत्तनिरूपण -प्रकरण
[११५
हस्ताग्रे राजविरचितवलयद्वन्द्वा,
स्तुत्या संप्रोक्ता वरकविभिरसम्बाधा ।। ३०३ ॥
यथा
वन्दे गोपालं व्रजजनतरुणीधीरं,
रासक्रीडायामभिगतयमुनातीरम् । देवानां वन्द्य हृतवरवनिताचीरं,
बालैः संयुक्त दितिसुतदलने वीरम् ॥ ३०४ ॥ इति असम्बाधा १४२.
१४३. अथ अपराजिता द्विजपरिकलिता करेण विराजिता,
कुचयुगकलिता प्रलम्बितहारिणी! भुवननिगदितातिशोभितवणिनी,
रतिर्जयत्यपराजिता ।। ३०५ ।।
यथा
तितिा
..
...
अतिरुचिदशनैः सभातमसां हरः,
दितिसुतरुधिरः सुरक्तनखाङ्कुरः । जलभृदुडुगणौ सटाभिरुपाहरत्',
जयति हरितनुर्भटानपि संहरत् ॥ ३०६ ॥
इति अपराजिता १४३.
१४४. अथ प्रहरणकलिका रचयत नगणद्वयमथ भगणं,
लघुगुरुसहितं कलयत नगणम् । प्रहरणकलिका मुनियतिसहिता,
फणिपतिकथिता कविजनमहिता ॥ ३०७ ।।
यथा
नम मधुमथनं जलनिधिशयनं,
सुरगणनमितं सरसिजनयनम् । इति गदनमतिर्भवति हृदि यदा,
भवजलनिधि[त]स्तरति सखि ! तदा ॥ ३०८ ॥
१. ख. उपाहरन् ।
२. ख. संहरन् ।