________________
११४ ]
यथा
यथा वा, कृष्णकुतूहले -
यथा
वृत्तमौक्तिक- द्वितीयखण्ड
लोके त्वदीययशसा धवलीकृतेऽस्मिन्,
छायाभयं निजशरीरकृतं विमुच्य' । ज्योत्स्नावतीषु रजनीष्वभिसारिकाणां
सङ्घः प्रियस्य सदनं सुखतः प्रयाति ॥ २६८ ॥
पातुं न पारयति यत्कथितं पयस्त
द्दध्नो विनाश्य दृढनाशयति स्वकीयान् ' । खण्डं निधाय दधिखण्डमखण्डमेव,
क्षिप्त्वा मुखे निखिलमत्ति मुखे सुतस्ते ॥ २६६ ॥ इति वसन्ततिलका १४०.
१४१. श्रथ चक्रम्
कुण्डलकलितदहनमित नगणं,
शङ्खसहितमिह विरचय सगणम् ।
कुण्डल नरपतिवरक विकलितं,
क्रमखिलकविजनहृदि ललितम् ॥ ३०० ॥
कोकिलकलरव सुललितसमये,
[ १० २६८ - ३०२
शीतलमलयजपवनसुखमये ।
कामविशिखचयविदलितहृदये,
सुन्दरि ! परिहर हृदयमदमये ।। ३०१ ।।
यथा वा वाणीभूषणे - [ द्वितीयाध्याय, पद्य २५८ ] सुन्दरि ! नभसि जलदचयरुचिरे,
देहि नयनयुगमतिघनचिकुरे । मानमिह न कुरु जलधरसमये,
किं तव भवति हृदयमिदमदये ॥ ३०२ ॥
इति चक्रम् १४१.
१४२. अथ प्रसम्बाधा
बिभ्राणा कर्णो कलितल लितताटङ्कौ (ङ्का),
बाणैः सञ्छिन्नाद्विजविरचितशोभाढ्या ।
क. विमुक्तः । २. ख. दृढमाशयति स्वकोशात् । ३. ख. कुण्डली ।