SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ प० २६४ . २६७ ] १. वृत्तनिरूपण-प्रकरण यथा अभिनवसजलजलदविमल, निजजनविहतसकलशमल' । कमलसुललितनयनयुगल, जय ! जय ! सुरनुतपदकमल ॥ २६४ ॥ इति विमलगतिः १३८. अत्रापि प्रस्तारगत्या त्रयोदशाक्षरस्य द्विनवत्युत्तरं शतमष्टौ सहस्राणि च ८१६२ भेदा भवन्ति, तेषु कतिचन भेदाः समुदाहृताः, शेषभेदाः सुधीभिः प्रस्तार्य समुदाहरणीया इत्यलं पल्लवेन ।* इति त्रयोदशाक्षरम्। अथ चतुर्दशाक्षरम् १३६. सिंहास्यः यस्मिन्निन्द्रैः संख्याता राजन्ते युक्ता वर्णाः, ‘पादे सूर्याश्वः संख्याकाः संशोभन्ते कर्णाः । नागानामीशेनैतत् प्रोक्त सिंहास्य कान्ते ! भूपालानां चित्तानन्दस्थानं धेहि स्वान्ते ।। २६५ ॥ यथा यो दैत्यानामिन्द्रं वक्षस्पीठे हस्तस्याप्रै भिद्यद् ब्रह्माण्डं व्याक्रुश्योच्चैया॑मृद्नादुः । दत्तालीकान्युन्मिश्रं निर्यद्विधु वृद्धास्यस्तूर्णं सोऽस्माकं रक्षां कुर्याद्घोर (वीरः)सिंहास्यः ॥ २६६ ।। इति सिंहास्यः १३६. १४०. अथ वसन्ततिलका हारद्वयं स्फुरदुरोजयुतं दधाना, हस्तं च गन्धकुसुमोज्ज्वलकङ्कणाढयम् । पादे तथा सरुतनूपुरयुग्मयुक्ता, चित्ते वसन्ततिलका किल चाकसीति ।। २६७ ।। १. ख. समल । २. पंक्तित्रयं नास्ति क. प्रतो। + टिप्पणी- ग्रन्थान्तरेषु समुपलब्धशेषभेदाः पञ्चमपरिशिष्टे पर्यवेक्षणीयाः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy