________________
११२]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० २८६-२६३
१३६. अथ सुध तिः कुरु न-सगणौ पादे तकारी तथा,
कलय वलयं स्युः कामवर्णा यथा । रसपरिमितैर्वर्णैस्तथा स्याद् यतिः,
__ फणिपकथिता संशोभते सुध तिः ॥ २८६ ॥
यथा
वदनवलितै गैर्युता सद्वया,
लुलितललिता लोलालसाक्षिद्वया । सखि हरिगृहाद् याति प्रगे राधिका,
सकलसुदृशां नित्यं मनोबाधिका ॥ २६० ।।
इति सुधु तिः १३६.
१३७. अथ लक्ष्मीः कर्णे विराजिसरसकुण्डलान्विता,
गन्धाढयपुष्पयुतकरेण शोभिता। वक्षोरुहे च विमलहारशोभिनी,
लक्ष्मीः सदा फलतु ममातुलं फलम् ।। २६१ ॥
यथा
वन्दे हरि फणिपतिभोगशायिनं,
सर्वेश्वरं सकलजनेष्टदायिनम् । पीताम्बरं मणिमुकुटादिभासुरं,
गो-गोपिकानिकरवृतं हतासुरम् ।। २६२ ।।
इति लक्ष्मी: १३७.
१३८. प्रथ विमलगतिः जलधिमित नगणमिह कलय,
तदनु च सखि लघुमिह रचय । फणिपतिसुकलितमिति भवति,
वितनु यति विमलगति सुदति ! ॥ २६३ ।।