________________
प० २८४.२८८]
१. वृत्तनिरूपण-प्रकरण
यथा
शशधरवदनं राधिकारसालं,
सरसिजनयनं पङ्कजालिमालम् ॥ २८४ ॥
इति क्षमा १३३. इयमेव क्वचिद् गणान्तरेणापि क्षमैव'* भवति ।
१३४. अथ लता कलय नगणं विधेहि ततः करं,
____ जगणयुगलं च देहि ततः परम् । चरणविरतौ गुरुं कुरु सम्मता,
रसकृतयतिर्मुदा विहिता लता ।। २८५ ।। कलय हृदये मुदा वजनायकं,
ललितमुकुटं सदा सुखदायकम् । युवतिसहितं व्रजेन्द्रसुतं हरिं,
कनकवसनं भवाम्बुनिधेस्तरिम् ॥ २८६ ॥
इति लता १३४.
१३५. अथ चन्द्रलेखम् कुरु न-सगणौ पक्षिराजं च युक्तं,
__ रचय रगणं कामवणरमुक्तम् । तदनु च पुनः कुण्डलं धेहि शेष,
___ कलय फणिना भाषितं चन्द्रलेखम् ।।२८७।।
यथा
नमत सततं नन्दगोपस्य सूनु,
फणिप-दमनं दानवोलूकभानुम् । कमलवदनं राधिकाया रसालं, तरलनयनं पङ्कजालीसुमालम् ।। २८८ ।।
इति चन्द्र लेखम् १३५. चन्द्रलेखा' इत्यन्यत्र ।
*टिप्पणी-१ वृत्तरत्नाकरस्य (अ० ३ का० ७५) नारायणीटीकायो 'इयं क्षमैव
प्राचार्यों मतभेदेन संज्ञान्तरार्थ पुनरूचे'। *टिप्पणी-२ छन्दोमञ्जरी, द्वितीयस्तबक, कारिका १०५