________________
११० ]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० २७६ - २८३
१३१ अथ कलहंसः सगणं विधेहि जगणं च सुयुक्त,
सगणद्वयं कुरु पुनः फणिवित्तम् । गुरुमन्तगं कुरु तथा हृतचित्तं,
कलहंसनामकमिदं वरवृत्तम् ।। २७६ ।।
यथा
नवनीतचोरममलद्युतिशोभं,
व्रजसुन्दरीवदनपङ्कजलोभम् । लालतादिगोपवनिताकृतरासं,
कलये हरिं निजहृदा वरहासम् ॥ २८० ॥
इति कलहंसः १३१. कुत्रचिदयमेव सिंहनाद इति, क्वचिच्च कुटजाख्यमिति ।
१३२. अथ मगेन्द्रमुखम् कुरु नगणं तदनन्तरं नरेन्द्र,
तदनु च जं कुरु पक्षिणामथेन्द्रम् । तदनु विधारय नूपुरं पदान्ते
रचय मृगेन्द्रमुखं सुखेन कान्ते ! ॥ २८१ ॥ कुमुदवनीषु सखे ! विधूतबन्धः,
कमलवनस्य सदा हृतातिगन्धः । विधुरुदितो धवलीकृतातिलोकः.
प्रतिरजनीषु च दत्तकोकशोकः ।। २८२ ॥ इति मृगेन्द्र मुखम् १३२.
१३३. अथ क्षमा द्विजवर-सगणौ धेहि वैनतेयं,
यगणमथ तथा पण्डितालिगेयम् । मुनिरचितयतिः सज्जनादिमेयं,
फणिपतिकथिता राजति क्षमेयम् ।। २८३ ॥
यथा
यथा
कलयत हृदये नन्दगोपसूनु,
फणिपतिदमनं न्यक्कृतातिभानुम् ।